ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 3
ऋषिः - दीर्घतमसः पुत्रः कक्षीवान्
देवता - उषाः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
यद॒द्य भा॒गं वि॒भजा॑सि॒ नृभ्य॒ उषो॑ देवि मर्त्य॒त्रा सु॑जाते। दे॒वो नो॒ अत्र॑ सवि॒ता दमू॑ना॒ अना॑गसो वोचति॒ सूर्या॑य ॥
स्वर सहित पद पाठयत् । अ॒द्य । भा॒गम् । वि॒ऽभजा॑सि । नृऽभ्यः॑ । उषः॑ । दे॒वि॒ । म॒र्त्य॒ऽत्रा । सु॒ऽजा॒ते॒ । दे॒वः । नः॒ । अत्र॑ । स॒वि॒ता । दमू॑नाः । अना॑गसः । वो॒च॒ति॒ । सूर्या॑य ॥
स्वर रहित मन्त्र
यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते। देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
स्वर रहित पद पाठयत्। अद्य। भागम्। विऽभजासि। नृऽभ्यः। उषः। देवि। मर्त्यऽत्रा। सुऽजाते। देवः। नः। अत्र। सविता। दमूनाः। अनागसः। वोचति। सूर्याय ॥ १.१२३.३
ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 3
अष्टक » 2; अध्याय » 1; वर्ग » 4; मन्त्र » 3
अष्टक » 2; अध्याय » 1; वर्ग » 4; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह ।
अन्वयः - हे सुजाते देवि कन्ये त्वमद्य नृभ्य उषरिव यद्यं भागं विभजासि यश्चात्र दमूना मर्त्यत्रा सवितेव देवस्तव पतिः सूर्याय नोऽनागसो वोचति तौ युवां वयं सततं सत्कुर्याम ॥ ३ ॥
पदार्थः -
(यत्) यम् (अद्य) (भागम्) भजनीयम् (विभजासि) विभजेः (नृभ्यः) नायकेभ्यः (उषः) प्रभातवत् (देवि) सुलक्षणैः सुशोभिते (मर्त्यत्रा) मर्त्येषु मनुष्येषु (सुजाते) सत्कीर्त्या प्रकाशिते (देवः) देदीप्यमानः (नः) अस्मभ्यम् (अत्र) अस्मिन् गृहाश्रमे (सविता) सूर्यः (दमूनाः) सुहृद्वरः (अनागसः) अनपराधिनः (वोचति) उच्याः (सूर्याय) परमेश्वरविज्ञानाय ॥ ३ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदा द्वौ स्त्रीपुरुषौ विद्यावन्तौ धर्माचारिणौ विद्याप्रचारकौ सदा परस्परस्मिन् प्रसन्नौ भवेतां तदा गृहाश्रमेऽतीव सुखभाजिनौ स्याताम् ॥ ३ ॥
इस भाष्य को एडिट करें