ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 4
ऋषिः - दीर्घतमसः पुत्रः कक्षीवान्
देवता - उषाः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
गृ॒हंगृ॑हमह॒ना या॒त्यच्छा॑ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा॑ना। सिषा॑सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू॑नाम् ॥
स्वर सहित पद पाठगृ॒हम्ऽगृ॑हम् । अ॒ह॒ना । या॒ति॒ । अच्छ॑ । दि॒वेऽदि॑वे । अधि॑ । नाम॑ । दधा॑ना । सिसा॑सन्ती । द्यो॒त॒ना । शश्व॑त् । आ । अ॒गा॒त् । अग्र॑म्ऽअग्रम् । इत् । भ॒ज॒ते॒ । वसू॑नाम् ॥
स्वर रहित मन्त्र
गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना। सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥
स्वर रहित पद पाठगृहम्ऽगृहम्। अहना। याति। अच्छ। दिवेऽदिवे। अधि। नाम। दधाना। सिसासन्ती। द्योतना। शश्वत्। आ। अगात्। अग्रम्ऽअग्रम्। इत्। भजते। वसूनाम् ॥ १.१२३.४
ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 4
अष्टक » 2; अध्याय » 1; वर्ग » 4; मन्त्र » 4
अष्टक » 2; अध्याय » 1; वर्ग » 4; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ।
अन्वयः - या स्त्री यथोषा अहना गृहंगृहमच्छाधियाति दिवेदिवे नाम दधाना द्योतना सती वसूनामग्रमग्रं भजते शश्वदिदागात् तथा सिषासन्ती भवेत् सा गृहकार्य्यालङ्कारिणी स्यात् ॥ ४ ॥
पदार्थः -
(गृहंगृहम्) निकतेनं निकेतनम् (अहना) दिवसेन व्याप्त्या वा। अत्र वाच्छन्दसीत्यल्लोपो न। (याति) (अच्छ) उत्तमरीत्या। अत्र निपातस्येति दीर्घः। (दिवेदिवे) प्रतिदिनम् (अधि) उपरिभावे (नाम) संज्ञाम् (दधाना) धरन्ती (सिषासन्ती) दातुमिच्छन्ती (द्योतना) प्रकाशमाना (शश्वत्) निरन्तरम् (आ) (अगात्) प्राप्नोति (अग्रमग्रम्) पुरःपुरः (इत्) एव (भजते) सेवते (वसूनाम्) पृथिव्यादीनाम् ॥ ४ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्यदीप्तिः पदार्थानां पुरोभागं सेवते नियमेन प्रतिसमयं प्राप्नोति तथा स्त्रियापि भवितव्यम् ॥ ४ ॥
इस भाष्य को एडिट करें