Loading...
ऋग्वेद मण्डल - 1 के सूक्त 123 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 6
    ऋषिः - दीर्घतमसः पुत्रः कक्षीवान् देवता - उषाः छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    उदी॑रतां सू॒नृता॒ उत्पुर॑न्धी॒रुद॒ग्नय॑: शुशुचा॒नासो॑ अस्थुः। स्पा॒र्हा वसू॑नि॒ तम॒साप॑गूळ्हा॒विष्कृ॑ण्वन्त्यु॒षसो॑ विभा॒तीः ॥

    स्वर सहित पद पाठ

    उत् । ई॒र॒ता॒म् । सू॒नृताः॑ । उत् । पुर॑म्ऽधीः । उत् । अ॒ग्नयः॑ । शु॒शु॒चा॒नासः॑ । अ॒स्थुः॒ । स्पा॒र्हा । वसू॑नि । तम॑सा । अप॑ऽगूळ्हा । आ॒विः । कृ॒ण्व॒न्ति॒ । उ॒षसः॑ । वि॒ऽभा॒तीः ॥


    स्वर रहित मन्त्र

    उदीरतां सूनृता उत्पुरन्धीरुदग्नय: शुशुचानासो अस्थुः। स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥

    स्वर रहित पद पाठ

    उत्। ईरताम्। सूनृताः। उत्। पुरम्ऽधीः। उत्। अग्नयः। शुशुचानासः। अस्थुः। स्पार्हा। वसूनि। तमसा। अपऽगूळ्हा। आविः। कृण्वन्ति। उषसः। विऽभातीः ॥ १.१२३.६

    ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 6
    अष्टक » 2; अध्याय » 1; वर्ग » 5; मन्त्र » 1

    अन्वयः - हे सत्पुरुषा सूनृताः सन्तो यूयं यथा पुरन्धीश्शुशुचानासोऽग्नय इव स्त्रिय उदीरताम् स्पार्हा वसूनि उदस्थुः। यथोषसस्तमसापगूढा द्रव्याणि विभातीश्चोदाविष्कृण्वन्ति तथा भवत ॥ ६ ॥

    पदार्थः -
    (उत्) उत्कृष्टतया (ईरताम्) प्रेरयन्तु (सूनृताः) सत्यभाषणादिक्रियाः (उत्) (पुरन्धीः) याः पुरं श्रितां दधाति ताः (उत्) (अग्नयः) पावका इव (शुशुचानासः) भृशं पवित्रकारकाः (अस्थुः) तिष्ठन्तु (स्पार्हा) स्पृहणीयानि (वसूनि) (तमसा) अन्धकारेण (अपगूढा) आच्छादितानि (आविः) प्राकट्ये (कृण्वन्ति) कुर्वन्ति (उषसः) प्रभाता (विभातीः) विशिष्टप्रकाशान् ॥ ६ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदा स्त्रिय उषर्वद्वर्त्तमाना अविद्यामलिनतादि निष्कृत्य विद्यापवित्रतादि संप्रकाश्यैश्वर्यमुन्नयन्ति तदा ताः सततं सुखिन्यो भवन्ति ॥ ६ ॥

    इस भाष्य को एडिट करें
    Top