Loading...
ऋग्वेद मण्डल - 1 के सूक्त 123 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 123/ मन्त्र 8
    ऋषिः - दीर्घतमसः पुत्रः कक्षीवान् देवता - उषाः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    स॒दृशी॑र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑। अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै॑का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ॥

    स्वर सहित पद पाठ

    स॒ऽदृशीः॑ । अ॒द्य । स॒ऽदृशीः॑ । इत् । ऊँ॒ इति॑ । श्वः । दी॒र्घम् । स॒च॒न्ते॒ । वरु॑णस्य । धाम॑ । अ॒न॒व॒द्याः । त्रिं॒शत॑म् । योज॑नानि । एका॑ऽएका । क्रतु॑म् । परि॑ । य॒न्ति॒ । स॒द्यः ॥


    स्वर रहित मन्त्र

    सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम। अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥

    स्वर रहित पद पाठ

    सऽदृशीः। अद्य। सऽदृशीः। इत्। ऊँ इति। श्वः। दीर्घम्। सचन्ते। वरुणस्य। धाम। अनवद्याः। त्रिंशतम्। योजनानि। एकाऽएका। क्रतुम्। परि। यन्ति। सद्यः ॥ १.१२३.८

    ऋग्वेद - मण्डल » 1; सूक्त » 123; मन्त्र » 8
    अष्टक » 2; अध्याय » 1; वर्ग » 5; मन्त्र » 3

    अन्वयः - या अद्य अनवद्या सदृशीरु श्वः सदृशीर्वरुणस्य दीर्घं धाम सचन्ते। एकैका त्रिंशतं योजनानि क्रतुं सद्यः परियन्ति ता इद् व्यर्थाः केनचिन्नो नेयाः ॥ ८ ॥

    पदार्थः -
    (सदृशीः) सदृश्यो रात्र्य उषसश्च (अद्य) अस्मिन् दिने (सदृशीः) (इत्) एव (उ) वितर्के (श्वः) आगामिदिने (दीर्घम्) महान्तं समयम् (सचन्ते) समवेता वर्त्तन्ते (वरुणस्य) वायोः (धाम) स्थानम् (अनवद्याः) अनिन्दिताः (त्रिंशतम्) (योजनानि) विंशत्यधिकशतं क्रोशान् (एकैका) (क्रतुम्) कर्म (परि) (यन्ति) (सद्यः) शीघ्रम् ॥ ८ ॥

    भावार्थः - यथेश्वरनियमनियतानां गतानां वर्त्तमानानामागामिनां च रात्रिदिनानामन्यथात्वं न जायते तथैव सर्वस्याः सृष्टेः क्रमविपर्यासो न भवति तथा ये मनुष्या आलस्यं विहाय सृष्टिक्रमानुकूलतया प्रयतन्ते ते प्रशंसितविद्यैश्वर्या जायन्ते यथैतद्रात्रिदिनं यथा समयं यात्यायाति च तथैव मनुष्यैर्व्यवहारेषु सदा वर्त्तितव्यम् ॥ ८ ॥

    इस भाष्य को एडिट करें
    Top