Loading...
ऋग्वेद मण्डल - 1 के सूक्त 131 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 131/ मन्त्र 3
    ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्र: छन्दः - भुरिगष्टिः स्वरः - मध्यमः

    वि त्वा॑ ततस्रे मिथु॒ना अ॑व॒स्यवो॑ व्र॒जस्य॑ सा॒ता गव्य॑स्य नि॒:सृज॒: सक्ष॑न्त इन्द्र नि॒:सृज॑:। यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॒॑र्यन्ता॑ स॒मूह॑सि। आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव॑म् ॥

    स्वर सहित पद पाठ

    वि । त्वा॒ । त॒त॒स्रे॒ । मि॒थु॒नाः । अ॒व॒स्यवः॑ । व्र॒जस्य॑ । सा॒ता । गव्य॑स्य । निः॒ऽसृजः॑ । सक्ष॑न्तः । इ॒न्द्र॒ । निः॒ऽसृजः॑ । यत् । ग॒व्यन्ता॑ । द्वा । जना॑ । स्वः॑ । यन्ता॑ । स॒म्ऽऊह॑सि । आ॒विः । करि॑क्रत् । वृष॑णम् । स॒चा॒ऽभुवम् । वज्र॑म् । इ॒न्द्र॒ । स॒चा॒ऽभुव॑म् ॥


    स्वर रहित मन्त्र

    वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य नि:सृज: सक्षन्त इन्द्र नि:सृज:। यद्गव्यन्ता द्वा जना स्व१र्यन्ता समूहसि। आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥

    स्वर रहित पद पाठ

    वि। त्वा। ततस्रे। मिथुनाः। अवस्यवः। व्रजस्य। साता। गव्यस्य। निःऽसृजः। सक्षन्तः। इन्द्र। निःऽसृजः। यत्। गव्यन्ता। द्वा। जना। स्वः। यन्ता। सम्ऽऊहसि। आविः। करिक्रत्। वृषणम्। सचाऽभुवम्। वज्रम्। इन्द्र। सचाऽभुवम् ॥ १.१३१.३

    ऋग्वेद - मण्डल » 1; सूक्त » 131; मन्त्र » 3
    अष्टक » 2; अध्याय » 1; वर्ग » 20; मन्त्र » 3

    अन्वयः - हे इन्द्र सक्षन्तो निःसृजोवस्यवो निःसृजो मिथुना त्वा प्राप्य व्रजस्य गव्यस्य सातेव दुःखानि विततस्रे। हे इन्द्र यद्यौ गव्यन्ता द्वा स्वर्यन्ता जना आविष्करिक्रत्सँस्त्वं समूहसि तं सचाभुवं वज्रं वृषणं सचाभुवं त्वा तौ नित्यमुपासेताम् ॥ ३ ॥

    पदार्थः -
    (वि) (त्वा) त्वां जगदीश्वरम् (ततस्रे) तस्यन्ति दुःखान्युपक्षयन्ति (मिथुना) मिथुनानि स्त्रीपुरुषाख्यद्वन्द्वानि (अवस्यवः) आत्मनोऽवमिच्छवः (व्रजस्य) व्रजितुं गन्तुं योग्यस्य (साता) सम्यक् सेवने (गव्यस्य) गोभ्यो हितस्य (निःसृजः) नितरां सृजन्तः निष्पादयन्तः (सक्षन्तः) सहन्तः। अत्र सह धातोः पृषोदरादिवत्सकारागमः। (इन्द्र) परमैश्वर्यप्रद (निःसृजः) नितरां संपन्नाः (यत्) यौ (गव्यन्ता) गौरिवाचरन्तौ (द्वा) द्वौ (जना) जनौ (स्वः) सुखस्वरूपम् (यन्ता) यन्तौ प्राप्नुवन्तौ (समूहसि) सम्यक् चेतयसि (आविः) प्राकट्ये (करिक्रत्) भृशं कुर्वन् (वृषणम्) सेचकन् (सचाभुवम्) यः समवाये भवति तम् (वज्रम्) दुष्टानां वज्रमिव दण्डप्रदम् (इन्द्र) दुःखविदारक (सचाभुवम्) सत्यं भावुकम् ॥ ३ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये पुरुषाः स्त्रियश्च सर्वस्य जगतः प्रकाशकं कर्त्तारं धर्त्तारं दातारं सर्वान्तर्यामिजगदीश्वरमेव सेवन्ते ते सततं सुखिनो भवन्ति ॥ ३ ॥

    इस भाष्य को एडिट करें
    Top