ऋग्वेद - मण्डल 1/ सूक्त 131/ मन्त्र 4
ऋषिः - परुच्छेपो दैवोदासिः
देवता - इन्द्र:
छन्दः - विराडत्यष्टिः
स्वरः - मध्यमः
वि॒दुष्टे॑ अ॒स्य वी॒र्य॑स्य पू॒रव॒: पुरो॒ यदि॑न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः। शास॒स्तमि॑न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते। म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म॑न्दसा॒न इ॒मा अ॒पः ॥
स्वर सहित पद पाठवि॒दुः । ते॒ । अ॒स्य । वी॒र्य॑स्य । पू॒रवः॑ । पुरः॑ । यत् । इ॒न्द्र॒ । शार॑दीः । अ॒व॒ऽअति॑रः । स॒स॒हा॒नः । अ॒व॒ऽअति॑रः । शासः॑ । तम् । इ॒न्द्र॒ । मर्त्य॑म् । अय॑ज्युम् । श॒व॒सः॒ । प॒ते॒ । म॒हीम् । अ॒मु॒ष्णाः॒ । पृ॒थि॒वीम् । इ॒माः । अ॒पः । म॒न्द॒सा॒नः । इ॒माः । अ॒पः ॥
स्वर रहित मन्त्र
विदुष्टे अस्य वीर्यस्य पूरव: पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः। शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते। महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥
स्वर रहित पद पाठविदुः। ते। अस्य। वीर्यस्य। पूरवः। पुरः। यत्। इन्द्र। शारदीः। अवऽअतिरः। ससहानः। अवऽअतिरः। शासः। तम्। इन्द्र। मर्त्यम्। अयज्युम्। शवसः। पते। महीम्। अमुष्णाः। पृथिवीम्। इमाः। अपः। मन्दसानः। इमाः। अपः ॥ १.१३१.४
ऋग्वेद - मण्डल » 1; सूक्त » 131; मन्त्र » 4
अष्टक » 2; अध्याय » 1; वर्ग » 20; मन्त्र » 4
अष्टक » 2; अध्याय » 1; वर्ग » 20; मन्त्र » 4
विषयः - पुनः के किं कृत्वा किं कुर्युरित्याह ।
अन्वयः - हे इन्द्र यथा पूरवस्ते तवाऽस्य वीर्यस्य पुरः प्रभावं विदुस्तथाऽन्येऽपि जानन्तु। यद्यः सासहानो जन इमाः शारदीरपोऽवातिरस्तथा त्वमपि जानीह्यवातिरश्च। हे शवसस्पत इन्द्र यथा त्वं यमयज्युं मर्त्यं शासः। यो मन्दसानो महीं पृथिवीं प्राप्य इमा अपः प्राणिनः पीडयेत्तं त्वममुष्णा वयमपि च शिष्याम ॥ ४ ॥
पदार्थः -
(विदुः) जानीयुः (ते) तव (अस्य) (वीर्यस्य) पराक्रमस्य (पूरवः) मनुष्याः (पुरः) पूर्वम् (यत्) यः (इन्द्र) सर्वेषां धर्त्ता (शारदीः) शरदः इमाः (अवातिरः) अवतरेत् (सासहानः) सहमानः (अवातिरः) अवतरेत् (शासः) शिष्याः (तम्) (इन्द्र) सर्वाभिरक्षक (मर्त्यम्) मनुष्यम् (अयज्युम्) अयजमानम् (शवसः) बलस्य (पते) स्वामिन् (महीम्) महतीम् (अमुष्णाः) मुष्णीयाः (पृथिवीम्) (इमाः) प्रजाः (अपः) जलानि (मन्दसानः) कामयमानः (इमाः) प्रजाः (अपः) प्राणा इव वर्त्तमानाः ॥ ४ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। य आप्तानां प्रभावं विदित्वा धर्ममाचरन्ति ते दुष्टान् शासितुं शक्नुवन्ति ॥ ४ ॥
इस भाष्य को एडिट करें