Loading...
ऋग्वेद मण्डल - 1 के सूक्त 132 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 132/ मन्त्र 2
    ऋषिः - परुच्छेपो दैवोदासिः देवता - इन्द्र: छन्दः - भुरिगतिशक्वरी स्वरः - पञ्चमः

    स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म॑न्युष॒र्बुध॒: स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि। अह॒न्निन्द्रो॒ यथा॑ वि॒दे शी॒र्ष्णाशी॑र्ष्णोप॒वाच्य॑:। अ॒स्म॒त्रा ते॑ स॒ध्र्य॑क्सन्तु रा॒तयो॑ भ॒द्रा भ॒द्रस्य॑ रा॒तय॑: ॥

    स्वर सहित पद पाठ

    स्वः॒ऽजे॒षे । भरे॑ । आ॒प्रस्य॑ । वक्म॑नि । उ॒षः॒ऽबुधः॑ । स्वस्मि॑न् । अञ्ज॑सि । क्रा॒णस्य॑ । स्वस्मि॑न् । अञ्ज॑सि । अह॑न् । इन्द्रः॑ । यथा॑ । वि॒दे । शी॒र्ष्णाऽशी॑र्ष्णा । उ॒प॒ऽवाच्यः॑ । अ॒स्म॒ऽत्रा । ते॒ । स॒ध्र्य॑क् । स॒न्तु॒ । रा॒तयः॑ । भ॒द्राः । भ॒द्रस्य॑ । रा॒तयः॑ ॥


    स्वर रहित मन्त्र

    स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुध: स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि। अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्य:। अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातय: ॥

    स्वर रहित पद पाठ

    स्वःऽजेषे। भरे। आप्रस्य। वक्मनि। उषःऽबुधः। स्वस्मिन्। अञ्जसि। क्राणस्य। स्वस्मिन्। अञ्जसि। अहन्। इन्द्रः। यथा। विदे। शीर्ष्णाऽशीर्ष्णा। उपऽवाच्यः। अस्मऽत्रा। ते। सध्र्यक्। सन्तु। रातयः। भद्राः। भद्रस्य। रातयः ॥ १.१३२.२

    ऋग्वेद - मण्डल » 1; सूक्त » 132; मन्त्र » 2
    अष्टक » 2; अध्याय » 1; वर्ग » 21; मन्त्र » 2

    अन्वयः - हे मनुष्या यथा सध्र्यगिन्द्रो स्वर्जेषे विदे शीर्ष्णाशीर्ष्णोपवाच्यस्तथा भरे आप्रस्य क्राणस्योषर्बुधो वक्मनि स्वस्मिन्नञ्जसीव स्वस्मिन्नञ्जसि मेघं सूर्योऽहन्निव शत्रून् घ्नन्तु या अस्मत्रा भद्रा रातयस्ते भद्रस्य रातय इव स्युस्तास्ते सन्तु ॥ २ ॥

    पदार्थः -
    (स्वर्जेषे) सुखेन जयशीलाय (भरे) संग्रामे (आप्रस्य) पूर्णबलस्य (वक्मनि) उपदेशे (उषर्बुधः) रात्रिचतुर्थप्रहरे जागृताः (स्वस्मिन्) (अञ्जसि) प्रकटे (क्राणस्य) कुर्वाणस्य। अव वा छन्दसीति शपो लुक्। (स्वस्मिन्) (अञ्जसि) कामयमाने (अहन्) हन्ति (इन्द्रः) सूर्यः (यथा) (विदे) ज्ञानवते (शीर्ष्णा शीर्ष्णा) शिरसा शिरसा (उपवाच्यः) उपवक्तुं योग्यः (अस्मत्रा) अस्मासु (ते) तव (सध्र्यक्) सहाऽञ्चतीति (सन्तु) भवन्तु (रातयः) दानानि (भद्राः) कल्याणकराः (भद्रस्य) कल्याणकरस्य (रातयः) दानानि ॥ २ ॥

    भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यस्सभेशः सर्वान् शूरवीरान् स्ववसत्सत्करोति स शत्रून् जित्वा सर्वेभ्यः सुखं दातुं शक्नोति संग्रामे स्वकीयाः पदार्था अन्यार्था अन्येषां च स्वार्थाः कर्त्तव्या एवं परस्परस्मिन् प्रीत्या विरोधं विहाय विजयः प्राप्तव्यः ॥ २ ॥

    इस भाष्य को एडिट करें
    Top