Loading...
ऋग्वेद मण्डल - 1 के सूक्त 158 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 158/ मन्त्र 5
    ऋषिः - दीर्घतमा औचथ्यः देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    न मा॑ गरन्न॒द्यो॑ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधु॑:। शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ॥

    स्वर सहित पद पाठ

    न । मा॒ । ग॒र॒न् । न॒द्यः॑ । मा॒तृऽत॑माः । दा॒साः । यत् । ई॒म् । सुऽस॑मुब्धम् । अ॒व॒ऽअधुः॑ । शिरः॑ । यत् । अ॒स्य॒ । त्रै॒त॒नः । वि॒ऽतक्ष॑त् । स्व॒यम् । दा॒सः । उरः॑ । अंसौ॑ । अपि॑ । ग्धेति॑ ग्ध ॥


    स्वर रहित मन्त्र

    न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधु:। शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥

    स्वर रहित पद पाठ

    न। मा। गरन्। नद्यः। मातृऽतमाः। दासाः। यत्। ईम्। सुऽसमुब्धम्। अवऽअधुः। शिरः। यत्। अस्य। त्रैतनः। विऽतक्षत्। स्वयम्। दासः। उरः। अंसौ। अपि। ग्धेति ग्ध ॥ १.१५८.५

    ऋग्वेद - मण्डल » 1; सूक्त » 158; मन्त्र » 5
    अष्टक » 2; अध्याय » 3; वर्ग » 1; मन्त्र » 5

    अन्वयः - हे विद्वांसो दासाः सुममुब्धं यन्मामीमवाधुस्तं मा मातृतमा नद्यो न गरन्। यद्यस्त्रैतनो दासोऽस्य मम शिरो वितक्षत् स स्वयं उरो अंसावपि ग्ध ॥ ५ ॥

    पदार्थः -
    (न) (मा) माम् (गरन्) निगलेयुः (नद्यः) सरितः (मातृतमाः) अतिशयेन मातर इव वर्त्तमानाः (दासाः) सुखप्रदाः (यत्) यम् (ईम्) सर्वतः (सुसमुब्धम्) सुष्ठुसम्यगृजुम् (अबाधुः) अधो धरन्तु (शिरः) (यत्) यः (अस्य) (त्रैतनः) यस्त्रीणि शरीरात्ममनोजानि सुखानि तनोति स एव (वितक्षत्) तक्षतु (स्वयम्) (दासः) सेवकः (उरः) वक्षःस्थलम् (अंसौ) भुजमूले (अपि) (ग्ध) हन्तु। हन्तेर्लुङि छान्दसमेतत् ॥ ५ ॥

    भावार्थः - मनुष्यैरेवं प्रयतितव्यं यतो नदीसमुद्रा न निमज्जयेयुः। दासः शूद्रादिः सेवायां नियुक्तोऽप्यतिसरलस्वभावं पुरुषमालस्येन पीडयति ततस्तं सुशिक्षेतानुचितत्वे ताडयेच्च। स्वशरीराङ्गानि सदा पोषणीयानि च ॥ ५ ॥

    इस भाष्य को एडिट करें
    Top