ऋग्वेद - मण्डल 1/ सूक्त 162/ मन्त्र 22
ऋषिः - दीर्घतमा औचथ्यः
देवता - मित्रादयो लिङ्गोक्ताः
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
सु॒गव्यं॑ नो वा॒जी स्वश्व्यं॑ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं॑ र॒यिम्। अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो॑ वनतां ह॒विष्मा॑न् ॥
स्वर सहित पद पाठसु॒ऽगव्य॑म् । नः॒ । वा॒जी । सु॒ऽअश्व्य॑म् । पुं॒सः । पु॒त्रान् । उ॒त । वि॒श्वा॒ऽपुष॑म् । र॒यिम् । अ॒ना॒गाः॒ऽत्वम् । नः॒ । अदि॑तिः । कृ॒णो॒तु॒ । क्ष॒त्रम् । नः॒ । अश्वः॑ । व॒न॒ता॒म् । ह॒विष्मा॑न् ॥
स्वर रहित मन्त्र
सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्राँ उत विश्वापुषं रयिम्। अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥
स्वर रहित पद पाठसुऽगव्यम्। नः। वाजी। सुऽअश्व्यम्। पुंसः। पुत्रान्। उत। विश्वाऽपुषम्। रयिम्। अनागाःऽत्वम्। नः। अदितिः। कृणोतु। क्षत्रम्। नः। अश्वः। वनताम्। हविष्मान् ॥ १.१६२.२२
ऋग्वेद - मण्डल » 1; सूक्त » 162; मन्त्र » 22
अष्टक » 2; अध्याय » 3; वर्ग » 10; मन्त्र » 7
अष्टक » 2; अध्याय » 3; वर्ग » 10; मन्त्र » 7
विषयः - पुनस्तमेव विषयमाह ।
अन्वयः - यथाऽयं वाजी नः सुगव्यं स्वश्व्यं पुंसः पुत्रानुतापि विश्वापुषं रयिं कृणोतु सोऽदितिर्नोऽनागास्त्वं क्षत्रं कृणोतु स हविष्मानश्वो नो वनतां तथा वयमेनं साध्नुयाम ॥ २२ ॥
पदार्थः -
(सुगव्यम्) सुष्ठु गोषु भवानि यस्मिंस्तत् (नः) अस्माकम् (वाजी) वेगवान् (स्वश्व्यम्) शोभनेष्वश्वेषु भवम् (पुंसः) (पुत्रान्) (उत) (विश्वापुषम्) सर्वपुष्टिप्रदम् (रयिम्) श्रियम् (अनागास्त्वम्) निष्पापस्य भावम् (नः) अस्माकम् (अदितिः) अखण्डितः (कृणोतु) करोतु (क्षत्रम्) राज्यम् (नः) अस्मान् (अश्वः) व्याप्तिशीलोऽग्निः (वनताम्) सेवताम् (हविष्मान्) संबद्धानि हवींषि यस्मिन् सः ॥ २२ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। ये पृथिव्यादिविद्यया गवामश्वानां पुसां पुत्राणां च पूर्णां पुष्टिं श्रियं च कृत्वाऽश्वाग्निद्यया राज्यं वर्द्धयित्वा निष्पापा भूत्वा सुखिनः स्युस्तेऽन्यानप्येवं कुर्युरिति ॥ २२ ॥अत्राश्वाग्निविद्याप्रतिपादनादेतत्सूक्तार्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् इति द्विषष्ट्युत्तरं शततमं सूक्तं दशमो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें