ऋग्वेद - मण्डल 1/ सूक्त 32/ मन्त्र 4
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
यदि॒न्द्राह॑न्प्रथम॒जामही॑ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः । आत्सूर्यं॑ ज॒नय॒न्द्यामु॒षासं॑ ता॒दीत्ना॒ शत्रुं॒ न किला॑ विवित्से ॥
स्वर सहित पद पाठयत् । इ॒न्द्र॒ । अह॑न् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् । आत् । मा॒यिना॑म् । अमि॑नाः । प्र । उ॒त । मा॒याः । आत् । सूर्य॑म् । ज॒नय॑न् । द्याम् । उ॒षास॑म् । ता॒दीत्ना॑ । शत्रु॑म् । न । किला॑ । वि॒वि॒त्से॒ ॥
स्वर रहित मन्त्र
यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः । आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥
स्वर रहित पद पाठयत् । इन्द्र । अहन् । प्रथमजाम् । अहीनाम् । आत् । मायिनाम् । अमिनाः । प्र । उत । मायाः । आत् । सूर्यम् । जनयन् । द्याम् । उषासम् । तादीत्ना । शत्रुम् । न । किला । विवित्से॥
ऋग्वेद - मण्डल » 1; सूक्त » 32; मन्त्र » 4
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 4
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 4
विषयः - (यत्) यम्। सुपाम० इत्यमो लुक्। (इन्द्र) पदार्थविदारयितः सूर्यलोकसदृश (अहन्) जहि (प्रथमजाम्) सृष्टिकालयुगपदुत्पन्नं मेघम् (अहीनाम्) सर्पस्येव मेघावयवानाम् (आत्) अनन्तरम् (मायिनाम्) येषां मायानिर्माणं धनाकारं सूर्यप्रकाशाच्छादकं वा बहुविधं कर्म विद्यते तेषाम्। अत्र भृम्न्यर्थइनिः। (अमिनाः) निवारयेद्वा मीनातेर्निगमे। अ० ७।३।८१। इति ह्रस्वादेशश्च। (प्र) प्रकृष्टार्थे (उत) अपि (मायाः) अन्धकाराद्या इव (आत्) अद्भुते (सूर्य्यम्) किरणसमूहम् (जनयन्) प्रकटयन् सन् (द्याम्) प्रकाशमयं दिनम् (उषसम्) प्रातःसमयम्। अत्र वर्णव्यत्येन दीर्घत्वम्। (तादीत्ना) तदानीम्। अत्र पृषोदरादीनियथोपदिष्टम्। अ० ६।३।१०९। अनेन वर्णविपर्यासेनाकारस्थान ईकार ईकारस्थान आकारस्तुडागमः पूर्वस्यदीर्घश्च। (शत्रुम्) वैरिणम् (न) इव (किल) निश्चयार्थे। अत्र निपातस्यच इति दीर्घः। (विवित्से) अत्र व्यत्ययेनात्मनेपदम् ॥४॥
अन्वयः - पुनः स कीदृश इत्युपदिश्यते।
पदार्थः -
हे सेनाराजँस्त्वमिन्द्रः सूर्य्योऽहीनां प्रथमजां मेघमहन् तेषां मायिनामहीनां मायादीन् प्रामिणाः तादीत्ना यद्यं सूर्य्यकिरणसमूहमुषसं द्यां च प्रजनयन् दिनं करोति नेव शत्रून्विवित्से तेषां माया हन्यास्तदानीं न्यायार्के प्रकटयन् सत्यविद्याचाराख्यं सवितारं जनय ॥४॥
भावार्थः - अत्रोपमालङ्कारः। यथा कश्चिच्छत्रोर्बलछले निवार्य तं जित्वा स्वराज्ये सुखन्यायप्रकाशौ विस्तारयति तथैव सूर्योपि मेघस्य घनाकारं प्रकाशावरणं निवार्य स्वकिरणान् विस्तार्य मेघं छित्वा तमो हत्वा स्वदीप्तिं प्रसिद्धीकरोति ॥४॥ #[ स्खलितोऽत्रार्थोय-श्च ह० लि० प्रेस पुस्तके ‘विन्दसि’ इति रुपेण वर्तते। सं०]
इस भाष्य को एडिट करें