ऋग्वेद - मण्डल 1/ सूक्त 32/ मन्त्र 3
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - इन्द्र:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
वृ॒षा॒यमा॑णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ । आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जा मही॑नाम् ॥
स्वर सहित पद पाठवृ॒ष॒ऽयमा॑णः । अ॒वृ॒णी॒त॒ । सोम॑म् । त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । आ । साय॑कम् । म॒घवा॑ । अ॒द॒त्त॒ । वज्र॑म् । अह॑न् । ए॒न॒म् । प्र॒थ॒म॒ऽजाम् । अही॑नाम् ॥
स्वर रहित मन्त्र
वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य । आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजा महीनाम् ॥
स्वर रहित पद पाठवृषयमाणः । अवृणीत । सोमम् । त्रिकद्रुकेषु । अपिबत् । सुतस्य । आ । सायकम् । मघवा । अदत्त । वज्रम् । अहन् । एनम् । प्रथमजाम् । अहीनाम्॥
ऋग्वेद - मण्डल » 1; सूक्त » 32; मन्त्र » 3
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 3
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 3
विषयः - (वृषायमाणः) वृष इवाचरन् (अवृणीत) स्वीकरोति। अत्र लडर्थे लङ (सोमम्) सूयत उत्पद्यते यस्तं रसम्। (त्रिकद्रु केषु) त्रय उत्पत्तिस्थितिप्रलयाख्याः कद्रवोविविधकला येषां तेषु कार्यपदार्थेषु। अत्र कदिधातोरौणादिकः क्रुन्प्रत्ययः। पुनः समासान्तः कप् च। (अपिबत्) स्वप्रकाशेन पिबति। अत्र लडर्थे लङ् (सुतस्य) उत्पन्नस्य जगतो मध्ये (आ) क्रियायोगे। (सायकम्) शस्त्रविशेषम् (मघवा) मघं बहुविधं पूज्यं धनं यस्य सः। अत्र भूम्न्यर्थे मतुप्। (अदत्त्) ददाति वा। अत्र वर्त्तमाने लङ्। (वज्रम्) किरणसमूहमिवास्त्रम् (अहन्) हन्ति। अत्र वर्त्तमाने लङ्। (एनम्) मेघम् (प्रथमजाम) प्रथमं जायते तम्। अत्र जनसन०। अ० ३।२।६७। अनेन जनधातोर्विट् प्रत्ययः। (अहीनाम्) मेघानाम् ॥३॥
अन्वयः - पुनः स कीदृश इत्युपदिश्यते।
पदार्थः -
यथा वृषायमाण इन्द्रः सूर्य्यलोको मेघ इव सुतस्य त्रिकद्रु केषु सोमं रसमवृणीत स्वीकरोति अपिबत् पिबति मधवा सायकं वज्रमादत्ते वाहिनां प्रथमज्जमेनं मेघमहन् हन्ति। एतादृशगुणकर्मस्वभावपुरुषः सैनापत्यमर्हति ॥३॥
भावार्थः - अत्रोपमालङ्कारः। यथा वृषभो वीर्य्यवृद्धिं कृत्वा बलिष्ठो भूत्वा सुखी जायते तथैवायं सेनापतिः रसं पीत्वा बलीभूत्वा सुखी जायेत यथा सूर्यःस्वकिरणैर्जलमाकृष्यान्तरिक्षे स्थापयित्वा वर्षयति तथा शत्रुबलान्याकृष्य स्वबलमुन्नीय प्रजासुखान्यभिवर्षयेत् ॥३॥
इस भाष्य को एडिट करें