ऋग्वेद - मण्डल 1/ सूक्त 32/ मन्त्र 2
ऋषिः - हिरण्यस्तूप आङ्गिरसः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं॑ ततक्ष । वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥
स्वर सहित पद पाठअह॑न् । अहि॑म् । पर्व॑ते । शि॒श्रि॒या॒णम् । त्वष्टा॑ । अ॒स्मै॒ । वज्र॑म् । स्व॒र्य॑म् । त॒त॒क्ष॒ । वा॒श्राःऽइ॑व । धे॒नवः॑ । स्यन्द॑मानाः । अञ्जः॑ । स॒मु॒द्रम् । अव॑ । ज॒ग्मुः॒ । आपः॑ ॥
स्वर रहित मन्त्र
अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष । वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
स्वर रहित पद पाठअहन् । अहिम् । पर्वते । शिश्रियाणम् । त्वष्टा । अस्मै । वज्रम् । स्वर्यम् । ततक्ष । वाश्राःइव । धेनवः । स्यन्दमानाः । अञ्जः । समुद्रम् । अव । जग्मुः । आपः॥
ऋग्वेद - मण्डल » 1; सूक्त » 32; मन्त्र » 2
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 2
अष्टक » 1; अध्याय » 2; वर्ग » 36; मन्त्र » 2
विषयः - (अहन्) हतवान् हन्ति हनिष्यति वा (अहिम्) मेघमिवशत्रुम् (पर्वते) मेघमण्डले इव गिरौ। पर्वत इति मेघनामसु पठितम्। निघं० १।१०। (शिश्रियाणम्) विविधाश्रयम्। (त्वष्टा) स्वकिरणैः छेदनसूक्ष्मकर्त्ता स्वतेजोभिःशचुविदारको वा। (अस्मै) मेघाय दुष्टाय वा (वज्रम्) छेदनस्वभावं किरणसमूहं शस्त्रवृन्दं वा (स्वर्यम्) स्वरे गर्जने वाचि वा साधुस्तम्। स्वर इति वाङ्नामसु पठितम्। निघं० १।११। इदं पदं सायणाचार्येण मिथ्यैव व्याख्यातम्। (ततक्ष) छिनत्ति। (वाश्रा इव) वत्सप्राप्तिमुत्कंठिताःशब्दायमाना इव (धेनवः) गावः। (स्यन्दमानाः) प्रस्रवन्त्यः (अञ्जः) व्यक्तागमनशीला वा। अञ्जूव्यक्तिकरण इत्यस्य प्रयोगः। (समुद्रम्) जलेन पूर्णं सागरमन्तरिक्षं वा (अव) नीचार्थे (जग्मुः) गच्छन्ति (आपः) जलानि शत्रुप्राणा वा ॥२॥
अन्वयः - पुनः स किं करोतीत्युपदिश्यते।
पदार्थः -
यथा ऽयं त्वष्टा सूर्य्यलोकः पर्वते शिश्रियाणं स्वर्य्यमहिमहन् हन्ति। अस्मै मेधाय वज्रं ततक्ष तक्षति। एतेन कर्मणा वाश्रा धेनव इव स्यन्दमाना अंज आपः समुद्रमवजग्मुरवगच्छन्ति। तथैव सभाध्यक्षो राजा दुर्गमाश्रितं शत्रुं हन्यादस्मै शत्रवे वज्रं तक्षेत्तेन वाश्रा धेनव इव स्यन्दमाना अंज आपः समुद्रमवगमयेत् ॥२॥
भावार्थः - अत्रोपमालङ्कारः। यथा सूर्यःस्वकिरणैरंतरिक्षस्थं मेघं भूमौ निपात्य जगज्जीवयति तथा सेनेशोदुर्गपर्वताद्याश्रितमपि शत्रुं पृथिव्यां संपात्य प्रजाः सततं सुखयति ॥२॥
इस भाष्य को एडिट करें