Loading...
ऋग्वेद मण्डल - 1 के सूक्त 62 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 1/ सूक्त 62/ मन्त्र 12
    ऋषिः - नोधा गौतमः देवता - इन्द्र: छन्दः - आर्षीत्रिष्टुप् स्वरः - धैवतः

    स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय॑न्ते॒ नोप॑ दस्यन्ति दस्म। द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा॑ शचीव॒स्तव॑ नः॒ शची॑भिः ॥

    स्वर सहित पद पाठ

    स॒नात् । ए॒व । तव॑ । रायः॑ । गभ॑स्तौ । न । क्षीय॑न्ते । न । उप॑ । द॒स्य॒न्ति॒ । द॒स्म॒ । द्यु॒मान् । अ॒सि॒ । क्रतु॑ऽमान् । इ॒न्द्र॒ । धीरः॑ शिक्ष॑ । श॒ची॒ऽवः॒ । तव॑ । नः॒ । शची॑भिः ॥


    स्वर रहित मन्त्र

    सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म। द्युमाँ असि क्रतुमाँ इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥

    स्वर रहित पद पाठ

    सनात्। एव। तव। रायः। गभस्तौ। न। क्षीयन्ते। न। उप। दस्यन्ति। दस्म। द्युमान्। असि। क्रतुऽमान्। इन्द्र। धीरः शिक्ष। शचीऽवः। तव। नः। शचीभिः ॥

    ऋग्वेद - मण्डल » 1; सूक्त » 62; मन्त्र » 12
    अष्टक » 1; अध्याय » 5; वर्ग » 3; मन्त्र » 1

    अन्वयः - हे दस्म शचीव इन्द्र ! यस्त्वं द्युमान् क्रतुमान् धीरोऽसि तस्य तव गभस्तौ सनाद्रायो नैव क्षीयन्ते, तव नोपदस्यन्ति स त्वं शचीभिर्नोऽस्मान् शिक्ष ॥ १२ ॥

    पदार्थः -
    (सनात्) सनातनात् (एव) निश्चये (तव) सभाध्यक्षस्य (रायः) धनानि (गभस्तौ) नीतिप्रकाशे। गभस्तय इति रश्मिनामसु पठितम्। (निघं०१.५) (न) निषेधे (क्षीयन्ते) क्षीणानि भवन्ति (न) निषेधे (उप) सामीप्ये (दस्यन्ति) नश्यन्ति (दस्म) शत्रोरुपक्षेतः (द्युमान्) विद्यादिसद्गुणप्रकाशयुक्तः (असि) (क्रतुमान्) प्रज्ञावान् (इन्द्र) परमधनवन् परमधनहेतुर्वा (धीरः) ध्यानवान् (शिक्ष) उपदिश (शचीवः) शची प्रशस्ता वाक् प्रज्ञा कर्म वा विद्यतेऽस्मिन् तत्सम्बुद्धौ। शचीति प्रज्ञानामसु पठितम्। (निघं०३.९) कर्मनामसु पठितम्। (निघं०२.१) वाङ्नामसु पठितम्। (निघं०१.११) (तव) भवत्प्रबन्धे (नः) अस्मान् (शचीभिः) कर्मभिः ॥ १२ ॥

    भावार्थः - यः सनातनाद्वेदविज्ञानात् शिक्षां प्राप्य सभाद्यध्यक्षो भूत्वा प्रजाः पालयेत्, स मनुष्यो धार्मिको वेद्यः ॥ १२ ॥

    इस भाष्य को एडिट करें
    Top