ऋग्वेद - मण्डल 3/ सूक्त 12/ मन्त्र 9
ऋषिः - गाथिनो विश्वामित्रः
देवता - इन्द्राग्नी
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
इन्द्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः। तद्वां॑ चेति॒ प्र वी॒र्य॑म्॥
स्वर सहित पद पाठइन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ । तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥
स्वर रहित मन्त्र
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः। तद्वां चेति प्र वीर्यम्॥
स्वर रहित पद पाठइन्द्राग्नी इति। रोचना। दिवः। परि। वाजेषु। भूषथः। तत्। वाम्। चेति। प्र। वीर्यम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 12; मन्त्र » 9
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे सेनासेनाध्यक्षौ ! यथेन्द्राग्नी दिवो रोचना परिभूषथस्तथा वाजेषु विजयेन सेनाजना युवां परिभूषन्तु तद्वां प्रवीर्य्यञ्चेति ॥९॥
पदार्थः -
(इन्द्राग्नी) वायुविद्युतौ (रोचना) रोचनानि रुचिकराणि कर्माणि (दिवः) प्रकाशस्य मध्ये (परि) (वाजेषु) सङ्ग्रामेषु (भूषथः) अलङ्कुरुथः (तत्) (वाम्) युवयोः (चेति) संज्ञपयति (प्र) प्रकृष्टम् (वीर्य्यम्) बलं पराक्रमम् ॥९॥
भावार्थः - ये राजानो सेनासेनाध्यक्षान् सर्वथोत्तमान् सम्पादयन्ति तेषां सर्वदा विजय एव भवतीति ॥९॥ अत्रेन्द्राग्न्यध्यापकोपदेशकसेनासेनाध्यक्षगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥ इति तृतीयमण्डले द्वादशं सूक्तं प्रथमोऽनुवाको द्वादशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें