ऋग्वेद - मण्डल 3/ सूक्त 12/ मन्त्र 8
ऋषिः - गाथिनो विश्वामित्रः
देवता - इन्द्राग्नी
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
इन्द्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च। यु॒वोर॒प्तूर्यं॑ हि॒तम्॥
स्वर सहित पद पाठइन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ । यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥
स्वर रहित मन्त्र
इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च। युवोरप्तूर्यं हितम्॥
स्वर रहित पद पाठइन्द्राग्नी इति। तविषाणि। वाम्। सधऽस्थानि। प्रयांसि। च। युवोः। अप्ऽतूर्यम्। हितम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 12; मन्त्र » 8
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 3
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 3
विषयः - पुना राजधर्मविषयमाह।
अन्वयः - हे इन्द्राग्नी वायुविद्युताविव वर्त्तमानौ सेनासेनाध्यक्षौ ! वां सधस्थानि प्रयांसि तविषाणि च युवोरप्तूर्य्यं हितं भवतु ॥८॥
पदार्थः -
(इन्द्राग्नी) वायुविद्युताविव सेनासेनाध्यक्षौ (तविषाणि) बलानि (वाम्) युवयोः (सधस्थानि) समानस्थानानि (प्रयांसि) कमनीयानि (च) (युवोः) (अप्तूर्य्यम्) कर्मानुष्ठानाय त्वरितव्यम् (हितम्) सुखसाधकम् ॥८॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदि वायुविद्युत्संयोगवत्सेनासेनाध्यक्षावविरुद्धौ स्यातां तर्हि सर्वे कामाः सिध्येयुः ॥८॥
इस भाष्य को एडिट करें