ऋग्वेद - मण्डल 3/ सूक्त 12/ मन्त्र 7
ऋषिः - गाथिनो विश्वामित्रः
देवता - इन्द्राग्नी
छन्दः - यवमध्याविराड्गायत्री
स्वरः - षड्जः
इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तयः॑। ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑॥
स्वर सहित पद पाठइन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥
स्वर रहित मन्त्र
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः। ऋतस्य पथ्या३ अनु॥
स्वर रहित पद पाठइन्द्राग्नी इति। अपसः। परि। उप। प्र। यन्ति। धीतयः। ऋतस्य। पथ्याः। अनु॥
ऋग्वेद - मण्डल » 3; सूक्त » 12; मन्त्र » 7
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 2
विषयः - पुनर्मनुष्याः किं कुर्य्युरित्याह।
अन्वयः - हे मनुष्या यथेन्द्राग्नी ऋतस्यापसः परि पथ्या अनु गच्छतोऽनयोर्गतयो धीतय इवोप प्रयन्ति तथा यूयं सन्मार्गं नियमेन गच्छत ॥७॥
पदार्थः -
(इन्द्राग्नी) वायुविद्युतौ (अपसः) कर्मणः (परि) सर्वतः (उप) समीपे (प्र) (यन्ति) गच्छन्ति (धीतयः) अङ्गुलय इव गतयः। धीतय इत्यङ्गुलिना०। निघं० २। ५। (ऋतस्य) सत्यस्य (पथ्याः) पथि साध्वीर्वीथीः (अनु) ॥७॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथेश्वरसृष्टौ सूर्य्यादिपदार्था नियमेन स्वं स्वं मार्गं गच्छन्ति तथैव मनुष्या धर्म्येण मार्गेण गच्छन्तु ॥७॥
इस भाष्य को एडिट करें