Loading...
ऋग्वेद मण्डल - 3 के सूक्त 12 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 12/ मन्त्र 6
    ऋषिः - गाथिनो विश्वामित्रः देवता - इन्द्राग्नी छन्दः - गायत्री स्वरः - षड्जः

    इन्द्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतम्। सा॒कमेके॑न॒ कर्म॑णा॥

    स्वर सहित पद पाठ

    इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् । सा॒कम् । एके॑न । कर्म॑णा ॥


    स्वर रहित मन्त्र

    इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम्। साकमेकेन कर्मणा॥

    स्वर रहित पद पाठ

    इन्द्राग्नी इति। नवतिम्। पुरः। दासऽपत्नीः। अधूनुतम्। साकम्। एकेन। कर्मणा॥

    ऋग्वेद - मण्डल » 3; सूक्त » 12; मन्त्र » 6
    अष्टक » 3; अध्याय » 1; वर्ग » 12; मन्त्र » 1

    अन्वयः - हे सभासेनेशौ ! यथेन्द्राग्नी साकमेकेन कर्मणा नवतिं पुरो दासपत्नीरधूनुतं तथैव युवां सेनादिभिः शत्रून् कम्पयतम् ॥६॥

    पदार्थः -
    (इन्द्राग्नी) वाय्वग्नी (नवतिम्) एतत्सङ्ख्याताः (पुरः) पालिकाः (दासपत्नीः) ये दस्यन्त्युपक्षिण्वन्ति शत्रून् ते दासास्तेषां पत्नीरिव वर्त्तमानाः किरणाः (अधूनुतम्) (साकम्) सह (एकेन) (कर्मणा) क्रियया ॥६॥

    भावार्थः - सभाध्यक्षादिमनुष्यैरैकमत्येन दुष्टान्निवार्य्य श्रेष्ठान् सत्कृत्य धर्म्येणाचरणेन राज्यशासनं कर्त्तव्यम् ॥६॥

    इस भाष्य को एडिट करें
    Top