ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 1
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः। पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः॥
स्वर सहित पद पाठभव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तराऽइव । सा॒धुः । पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥
स्वर रहित मन्त्र
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः। पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः॥
स्वर रहित पद पाठभव। नः। अग्ने। सुऽमनाः। उपऽइतौ। सखाऽइव। सख्ये। पितराऽइव। साधुः। पुरुऽद्रुहः। हि। क्षितयः। जनानाम्। प्रति। प्रतीचीः। दहतात्। अरातीः॥
ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 1
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 1
विषयः - अथ विद्वद्भिः किं विधेयमित्याह।
अन्वयः - हे अग्ने ! त्वमुपेतौ पितरेव सख्ये सखेव नोऽस्मभ्यं सुमना भव साधुः सन् जनानाम्मध्ये ये क्षितयः पुरुद्रुहः स्युस्तान् प्रतीचीररातीर्हि प्रतिदहतात् ॥१॥
पदार्थः -
(भव)। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (नः) अस्मभ्यम् (अग्ने) कृपामय विद्वन् (सुमनाः) शोभनं मनो यस्य सः (उपेतौ) प्राप्तौ (सखेव) मित्रवत् (सख्ये) मित्रकर्मणे (पितरेव) जनकाविव (साधुः) (पुरुद्रुहः) ये पुरून् बहून्द्रुह्यन्ति तान् (हि) (क्षितयः) मनुष्याः (जनानाम्) मनुष्याणाम् (प्रति) (प्रतीचीः) प्रतिकूलं वर्त्तमानाः (दहतात्) भस्मीकुरु (अरातीः) शत्रून् ॥१॥
भावार्थः - अत्रोपमालङ्कारः। हे मनुष्या युष्माभिर्ये विद्वांसो मनुष्यादिप्राणिषु पितृवन्मित्रवद्वर्त्तेरँस्तेषां सत्कारं ये द्वेष्टारस्तेषामसत्कारं कृत्वा धर्मो वर्द्धनीयः ॥१॥
इस भाष्य को एडिट करें