ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 2
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न् तपा॒ शंस॒मर॑रुषः॒ पर॑स्य। तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यासः॑॥
स्वर सहित पद पाठतपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य । तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥
स्वर रहित मन्त्र
तपो ष्वग्ने अन्तराँ अमित्रान् तपा शंसमररुषः परस्य। तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः॥
स्वर रहित पद पाठतपो इति। सु। अग्ने। अन्तरान्। अमित्रान्। तप। शंसम्। अररुषः। परस्य। तपो इति। वसो इति। चिकितानः। अचित्तान्। वि। ते। तिष्ठन्ताम्। अजराः। अयासः॥
ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 2
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे तपोऽग्ने त्वमन्तरानमित्रान्सुतप। अररुषः परस्य शंसं विधेहि। हे तपो वसो चिकितानस्त्वमचित्तान् बोधय। एतेऽजरा अयासस्ते समीपे वितिष्ठन्ताम् ॥२॥
पदार्थः -
(तपो) तपस्विन् (सु) (अग्ने) दुष्टान्प्रतिपावकवद्वर्त्तमान (अन्तरान्) भिन्नान् (अमित्रान्) शत्रून् (तप) सन्तापय (शंसम्) प्रशंसाम् (अररुषः) अहिंसकस्य (परस्य) श्रेष्ठस्य (तपो) दुष्टानां पुरुषाणां दाहक (वसो) यस्सद्गुणेषु वसति तत्सम्बुद्धौ (चिकितानः) ज्ञानवान् ज्ञापकः (अचित्तान्) प्राप्तदरिद्रावस्थान् (वि) (ते) तव (तिष्ठन्ताम्) (अजराः) जरारोगरहिताः (अयासः) विज्ञानवन्तः ॥२॥
भावार्थः - ये मनुष्याः शत्रून्निवार्य्य धार्मिकानाप्तान्सत्कृत्य सर्वार्थं सुखं वर्द्धयन्ति तेऽपि सुखमाप्नुवन्ति ॥२॥
इस भाष्य को एडिट करें