ऋग्वेद - मण्डल 3/ सूक्त 18/ मन्त्र 4
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि। रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्वः॑॥
स्वर सहित पद पाठउत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥
स्वर रहित मन्त्र
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि। रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं१ भूरि कृत्वः॥
स्वर रहित पद पाठउत्। शोचिषा। सहसः। पुत्र। स्तुतः। बृहत्। वयः। शशमानेषु। धेहि। रेवत्। अग्ने। विश्वामित्रेषु। शम्। योः। मर्मृज्म। ते। तन्वम्। भूरि। कृत्वः॥
ऋग्वेद - मण्डल » 3; सूक्त » 18; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 18; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे भूरि कृत्वः सहस्पुत्राग्ने ! स्तुतस्त्वं शोचिषा शशमानेषु विश्वामित्रेषु रेवद्बृहद्वयो भूरि शं धेहि। योर्मर्मृज्मा त्वन्ते तन्वमुद्धेहि ॥४॥
पदार्थः -
(उत्) (शोचिषा) तेजसा (सहसः) (पुत्र) बलस्योत्पादक (स्तुतः) प्रशंसितः (बृहत्) महत् (वयः) कमनीयमायुः (शशमानेषु) भोगाभ्यासोल्लङ्घनेषु (धेहि) (रेवत्) प्रशस्तधनयुक्तम् (अग्ने) पावकवद्वर्त्तमान वैद्यराज विद्वन् (विश्वामित्रेषु) विश्वं मित्रं सुहृद्येषान्तेषु (शम्) सुखम् (योः) दुःखवियोजकः सुखसंयोजकः (मर्मृज्मा) भृशं शुद्धः शोधयिता (ते) तव (तन्वम्) भूरि) बहु (कृत्वः) बहवः कर्त्तारो विद्यन्ते यस्य तत्सम्बुद्धौ ॥४॥
भावार्थः - हे पुरुषाः युष्माभिः ब्रह्मचर्य्येण विद्यायुषी वर्द्धयित्वा सर्वैः सह मित्रतां कृत्वा सर्वे दीर्घायुषो बृहद्विद्याः सम्पादनीयाः ॥४॥
इस भाष्य को एडिट करें