ऋग्वेद - मण्डल 3/ सूक्त 27/ मन्त्र 14
वृषो॑ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे॑व॒वाह॑नः। तं ह॒विष्म॑न्त ईळते॥
स्वर सहित पद पाठवृषो॒ इति॑ । अ॒ग्निः । सम् । इ॒ध्य॒ते॒ । अश्वः॑ । न । दे॒व॒ऽवाह॑नः । तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ ॥
स्वर रहित मन्त्र
वृषो अग्निः समिध्यतेऽश्वो न देववाहनः। तं हविष्मन्त ईळते॥
स्वर रहित पद पाठवृषो इति। अग्निः। सम्। इध्यते। अश्वः। न। देवऽवाहनः। तम्। हविष्मन्तः। ईळते॥
ऋग्वेद - मण्डल » 3; सूक्त » 27; मन्त्र » 14
अष्टक » 3; अध्याय » 1; वर्ग » 30; मन्त्र » 4
अष्टक » 3; अध्याय » 1; वर्ग » 30; मन्त्र » 4
विषयः - पुनर्मनुष्याः किं कुर्युरित्याह।
अन्वयः - यो वृषो देववाहनोऽग्निरश्वो न समिध्यते तं हविष्मन्त ईळते ॥१४॥
पदार्थः -
(वृषः) वर्षकः (अग्निः) पावकः (सम्, इध्यते) सम्यक् प्रकाश्यते (अश्वः) आशुगामी तुरङ्गः (न) इव (देववाहनः) यो देवान् दिव्यान् वेगादिगुणान् वाहयति प्रापयति सः (तम्) (हविष्मन्तः) बहूनि हवींष्यादानानि येषान्ते (ईळते) स्तुवन्ति ॥१४॥
भावार्थः - हे मनुष्या यथा बलिष्ठा वेगवन्तोऽश्वा यानं सद्यो गमयन्ति तथैवाऽग्निरस्तीति वेद्यम्। यथाऽस्य गुणान् विद्वांसो जानन्ति तथैव यूयमपि जानीत ॥१४॥
इस भाष्य को एडिट करें