Loading...
ऋग्वेद मण्डल - 3 के सूक्त 27 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 27/ मन्त्र 13
    ऋषिः - विश्वामित्रः देवता - अग्निः छन्दः - विराड्गायत्री स्वरः - षड्जः

    ई॒ळेन्यो॑ नम॒स्य॑स्ति॒रस्तमां॑सि दर्श॒तः। सम॒ग्निरि॑ध्यते॒ वृषा॑॥

    स्वर सहित पद पाठ

    ई॒ळेन्यः॑ । न॒म॒स्यः॑ । ति॒रः । तमां॑सि । द॒र्श॒तः । सम् । अ॒ग्निः । इ॒ध्य॒ते॒ । वृषा॑ ॥


    स्वर रहित मन्त्र

    ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः। समग्निरिध्यते वृषा॥

    स्वर रहित पद पाठ

    ईळेन्यः। नमस्यः। तिरः। तमांसि। दर्शतः। सम्। अग्निः। इध्यते। वृषा॥

    ऋग्वेद - मण्डल » 3; सूक्त » 27; मन्त्र » 13
    अष्टक » 3; अध्याय » 1; वर्ग » 30; मन्त्र » 3

    अन्वयः - हे मनुष्यास्तमांसि तिरः तिरस्कुर्वन्नग्निरिव वृषा दर्शत ईळेन्यो नमस्यः समिध्यते तं यूयं सततं भजत ॥१३॥

    पदार्थः -
    (ईळेन्यः) ईळितुं स्तोतुमर्हः (नमस्यः) सत्कर्त्तुं योग्यः (तिरः) तिरस्कुर्वन् (तमांसि) रात्रीः (दर्शतः) द्रष्टुं योग्यः (सम्) सम्यक् (अग्निः) अग्निरिव प्रकाशमानः (इध्यते) प्रदीप्यते (वृषा) वर्षकः ॥१३॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यस्तमो निहत्य प्रकाशं जनयति तथैवाप्ता विद्वांसोऽविद्यां हत्वा विद्यां प्रकाशयन्ति ॥१३॥

    इस भाष्य को एडिट करें
    Top