Loading...
ऋग्वेद मण्डल - 3 के सूक्त 30 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 30/ मन्त्र 21
    ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा देवता - इन्द्र: छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ नो॑ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं॑ स॒नयो॑ यन्तु॒ वाजाः॑। दि॒वक्षा॑ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः॥

    स्वर सहित पद पाठ

    आ । नः॒ । गो॒त्रा । द॒र्दृ॒हि॒ । गो॒ऽप॒ते॒ । गाः । सम् । अ॒स्मभ्य॑म् । स॒नयः॑ । य॒न्तु॒ । वाजाः॑ । दि॒वक्षाः॑ । अ॒सि॒ । वृ॒ष॒भ॒ । स॒त्यऽशु॑ष्मः । अ॒स्मभ्य॑म् । सु । म॒घ॒ऽव॒न् । बो॒धि॒ । गो॒ऽदाः ॥


    स्वर रहित मन्त्र

    आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः। दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः॥

    स्वर रहित पद पाठ

    आ। नः। गोत्रा। दर्दृहि। गोऽपते। गाः। सम्। अस्मभ्यम्। सनयः। यन्तु। वाजाः। दिवक्षाः। असि। वृषभ। सत्यऽशुष्मः। अस्मभ्यम्। सु। मघऽवन्। बोधि। गोऽदाः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 30; मन्त्र » 21
    अष्टक » 3; अध्याय » 2; वर्ग » 4; मन्त्र » 6

    अन्वयः - हे वृषभ मघवन् ! यतस्त्वं गोदाः सत्यशुष्मोऽसि तस्मादस्मभ्यं सुबोधि। हे गोपते यथाऽस्मभ्यं सनयो दिवक्षा वाजाः संयन्तु तथैव त्वं नो गोत्रा गाश्चा दर्दृहि ॥२१॥

    पदार्थः -
    (आ) समन्तात् (नः) अस्माकम् (गोत्रा) गोत्राणि कुलानि (दर्दृहि) अत्यन्तं वर्धय (गोपते) भूपते (गाः) पृथिवीः (सम्) (अस्मभ्यम्) (सनयः) संभक्तयः (यन्तु) प्राप्नुवन्तु (वाजाः) विज्ञानान्नादिप्रदा व्यवहाराः (दिवक्षाः) ये दिवं विज्ञानप्रकाशादिकमक्षन्ति व्याप्नुवन्ति (असि) (वृषभ) बलिष्ठ (सत्यशुष्मः) सत्यबलः (अस्मभ्यम्) (सु) (मघवन्) बहुपूजितधनयुक्त (बोधि) (गोदाः) यो गा वाण्यादीन् ददाति सः ॥२१॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदि सत्याचारसुशीला विद्वांसो मनुष्याणामुपदेष्टारः स्युस्तर्हि तेषां किमपि सुखमप्राप्तमरक्षणीयं न स्यात् ॥२१॥

    इस भाष्य को एडिट करें
    Top