ऋग्वेद - मण्डल 3/ सूक्त 34/ मन्त्र 10
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
इन्द्र॒ ओष॑धीरसनो॒दहा॑नि॒ वन॒स्पतीँ॑रसनोद॒न्तरि॑क्षम्। बि॒भेद॑ ब॒लं नु॑नु॒दे विवा॒चोऽथा॑भवद्दमि॒ताभिक्र॑तूनाम्॥
स्वर सहित पद पाठइन्द्रः॑ । ओष॑धीः । अ॒स॒नो॒त् । अहा॑नि । व॒न॒स्पती॑न् । अ॒स॒नो॒त् । अ॒न्तरि॑क्षम् । बि॒भेद॑ । व॒लम् । नु॒नु॒दे । विऽवा॑चः । अथ॑ । अ॒भ॒व॒त् । द॒मि॒ता । अ॒भिऽक्र॑तूनाम् ॥
स्वर रहित मन्त्र
इन्द्र ओषधीरसनोदहानि वनस्पतीँरसनोदन्तरिक्षम्। बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम्॥
स्वर रहित पद पाठइन्द्रः। ओषधीः। असनोत्। अहानि। वनस्पतीन्। असनोत्। अन्तरिक्षम्। बिभेद। बलम्। नुनुदे। विऽवाचः। अथ। अभवत्। दमिता। अभिऽक्रतूनाम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 34; मन्त्र » 10
अष्टक » 3; अध्याय » 2; वर्ग » 16; मन्त्र » 5
अष्टक » 3; अध्याय » 2; वर्ग » 16; मन्त्र » 5
विषयः - पुना राजादिजनैः किं कर्त्तव्यमित्याह।
अन्वयः - स राजेन्द्रोऽहानि नित्यमोषधीरसनोद्वनस्पतीनसनोदन्तरिक्षं बलं च बिभेद विवाचो नुनुदेऽथाभिक्रतूनां दमिताऽभवत् ॥१०॥
पदार्थः -
(इन्द्रः) ऐश्वर्य्यप्रदः (ओषधीः) सोमाद्याः (असनोत्) सुनुयात् (अहानि) दिनानि (वनस्पतीन्) अश्वत्थादीन् (असनोत्) सुनुयात् (अन्तरिक्षम्) उदकम्। अन्तरिक्षमित्युदकना०। निघं० १। १२। (बिभेद) भिन्द्यात् (बलम्) (नुनुदे) प्रेरयेत् (विवाचः) विविधा वाणीः (अथ) (अभवत्) भवेत् (दमिता) नियन्ता (अभिक्रतूनाम्) आभिमुख्येन क्रतुः कर्म येषां तेषां बलीयसां शत्रूणाम् ॥१०॥
भावार्थः - राजादिजनैः प्रत्यहमोषधिरसं निर्माय तद्रसपानं विद्यावाक्प्रचारणं सर्वेषां प्रज्ञानां स्वप्रज्ञाधिक्येन दमनं च कर्त्तव्यं यत आरोग्यं विद्याप्रभावाश्च प्रतिदिनं वर्धेरन् ॥१०॥
इस भाष्य को एडिट करें