Loading...
ऋग्वेद मण्डल - 3 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 10
    ऋषिः - गाथिनो विश्वामित्रः देवता - आप्रियः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति। सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑॥

    स्वर सहित पद पाठ

    वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ । सः । इत् । ऊँ॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥


    स्वर रहित मन्त्र

    वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति। सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद॥

    स्वर रहित पद पाठ

    वनस्पते। अव। सृज। उप। देवान्। अग्निः। हविः। शमिता। सूदयाति। सः। इत्। ऊँ इति। होता। सत्यऽतरः। यजाति। यथा। देवानाम्। जनिमानि। वेद॥

    ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 10
    अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 5

    अन्वयः - हे वनस्पते यथाग्निर्हविः सूदयाति तथा देवानुपसृज दोषानवसृज यः सत्यतरो होता यथा देवानां जनिमानि वेद स इदु शमिता यजाति ॥१०॥

    पदार्थः -
    (वनस्पते) किरणानां पालक (अव) (सृज) उत्पादय (उप) (देवान्) दिव्यान् गुणान् (अग्निः) पावकः (हविः) होतुं योग्यं द्रव्यम् (शमिता) उपशमकः (सूदयाति) क्षरयेत् वर्षयेत् (सः) (इत्) एव (उ) वितर्के (होता) आदाता (सत्यतरः) अतिशयेन सत्यः (यजाति) यजेत् (यथा) (देवानाम्) विदुषां दिव्यानां पदार्थानां वा (जनिमानि) जन्मानि (वेद) जानीयात् ॥१०॥

    भावार्थः - अत्रोपमा वाचकलुप्तोपमालङ्कारः। यथा सूर्य्यकिरणा दिव्यान् गुणान् सृजन्ति दोषान् दूरीकुर्वन्ति तथा विद्वांसो जगति गुणान् जनयित्वा दोषान् दूरीकुर्य्युः ॥१०॥

    इस भाष्य को एडिट करें
    Top