Loading...
ऋग्वेद मण्डल - 3 के सूक्त 4 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 4/ मन्त्र 11
    ऋषिः - गाथिनो विश्वामित्रः देवता - आप्रियः छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑। ब॒र्हिर्न॒ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयन्ताम्॥

    स्वर सहित पद पाठ

    आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ । ब॒र्हिः । नः॒ । आस्ता॑म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥


    स्वर रहित मन्त्र

    आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः। बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम्॥

    स्वर रहित पद पाठ

    आ। याहि। अग्ने। सम्ऽइधानः। अर्वाङ्। इन्द्रेण। देवैः। सऽरथम्। तुरेभिः। बर्हिः। नः। आस्ताम्। अदितिः। सुऽपुत्रा। स्वाहा। देवाः। अमृताः। मादयन्ताम्॥

    ऋग्वेद - मण्डल » 3; सूक्त » 4; मन्त्र » 11
    अष्टक » 2; अध्याय » 8; वर्ग » 23; मन्त्र » 6

    अन्वयः - हे अग्ने यथा समिधानोऽर्वाङिन्द्रेण देवैः तुरेभिः सह सरथं बर्हिर्न व्याप्तो भवति तथा त्वमायाहि यथा सुपुत्रा अदितिः सुखिन्यास्तां तथाऽमृता देवा अस्मान् स्वाहा मादयन्ताम् ॥११॥

    पदार्थः -
    (आ) (याहि) आगच्छ (अग्ने) वह्निवत्प्रकाशमान विद्वन् (समिधानः) प्रदीप्तः (अर्वाङ्) योऽर्वागधोऽञ्चति गच्छति सः (इन्द्रेण) वायुना विद्युता वा (देवैः) दिव्यैः (सरथम्) रथेन सह वर्त्तमानम् (तुरेभिः) शीघ्रगामिभिरश्वैः (बर्हिः) अन्तरिक्षम् (न) इव (आस्ताम्) उपविशतु (अदितिः) माता (सुपुत्रा) शोभनाः पुत्रा यस्याः सा (स्वाहा) शोभनान्नेन सुशिक्षितया वाचा वा (देवाः) दिव्यविद्याः (अमृताः) आत्मस्वरूपेण नित्याः (मादयन्ताम्) हर्षयन्तु ॥११॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या यथा विद्युदादिपदार्थैश्चालितानि यानानि भूसमुद्राऽन्तरिक्षेषु सद्यो गच्छन्ति तथा विद्वच्छिक्षया विद्याः प्राप्य सद्यो गुरुकुलं गत्वा ब्रह्मचारिण आगत्य सर्वानानन्दयन्त्विति ॥११॥। अत्र वह्निविद्वद्वाणीगुणवर्णनादेतर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥ इति चतुर्थं सूक्तं त्रयोविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top