ऋग्वेद - मण्डल 3/ सूक्त 42/ मन्त्र 7
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - गायत्री
स्वरः - षड्जः
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब। आ॒गत्या॒ वृष॑भिः सु॒तम्॥
स्वर सहित पद पाठइ॒मम् । इ॒न्द्र॒ । गोऽआ॑शिरम् । यव॑ऽआशिरम् । च॒ । नः॒ । पि॒ब॒ । आ॒ऽगत्य॑ । वृष॑ऽभिः । सु॒तम् ॥
स्वर रहित मन्त्र
इममिन्द्र गवाशिरं यवाशिरं च नः पिब। आगत्या वृषभिः सुतम्॥
स्वर रहित पद पाठइमम्। इन्द्र। गोऽआशिरम्। यवऽआशिरम्। च। नः। पिब। आऽगत्य। वृषऽभिः। सुतम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 42; मन्त्र » 7
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे इन्द्र ! त्वमागत्य नो वृषभिः सुतं गवाशिरं यवाशिरं चेमं सोमं पिब ॥७॥
पदार्थः -
(इमम्) (इन्द्र) ऐश्वर्य्यप्रद (गवाशिरम्) गावः किरणा अश्रन्ति यं तम् (यवाशिरम्) यवा अस्यन्ते यस्मिँस्तम् (च) (नः) अस्माकम् (पिब) (आगत्य)। अत्र संहितायामिति दीर्घः। (वृषभिः) वर्षकैर्मेघैः (सुतम्) उत्पादितम् ॥७॥
भावार्थः - हे मनुष्या ! ये किरणा वायवश्च पिबन्ति तमेव रसं यूयं पीत्वा बलिष्ठा भवत ॥७॥
इस भाष्य को एडिट करें