ऋग्वेद - मण्डल 3/ सूक्त 42/ मन्त्र 8
ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा
देवता - इन्द्र:
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३॒॑ सोमं॑ चोदामि पी॒तये॑। ए॒ष रा॑रन्तु ते हृ॒दि॥
स्वर सहित पद पाठतुभ्य॑ । इत् । इ॒न्द्र॒ । स्वे । ओ॒क्ये॑ । सोम॑म् । चो॒दा॒मि॒ । पी॒तये॑ । ए॒षः । र॒र॒न्तु॒ । ते॒ । हृ॒दि ॥
स्वर रहित मन्त्र
तुभ्येदिन्द्र स्व ओक्ये३ सोमं चोदामि पीतये। एष रारन्तु ते हृदि॥
स्वर रहित पद पाठतुभ्य। इत्। इन्द्र। स्वे। ओक्ये। सोमम्। चोदामि। पीतये। एषः। ररन्तु। ते। हृदि॥
ऋग्वेद - मण्डल » 3; सूक्त » 42; मन्त्र » 8
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 3
अष्टक » 3; अध्याय » 3; वर्ग » 6; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे इन्द्र ! य एष ते हृदि रारन्तु तं सोमं स्व ओक्ये पीतये तुभ्येच्चोदामि ॥८॥
पदार्थः -
(तुभ्य) तुभ्यम्। अत्र सुपां सुलुगिति विभक्तेर्लुक्। (इत्) एव (इन्द्र) ऐश्वर्य्ययुक्त (स्वे) स्वकीये (ओक्ये) गृहे (सोमम्) रसम् (चोदामि) प्रेरयामि (पीतये) (एषः) (रारन्तु) भृशं रमताम् (ते) तव (हृदि) हृदये ॥८॥
भावार्थः - प्राणिभिर्यद्भुज्यते पीयते च तत्सर्वं रुधिरादिकं भूत्वा हृदि संसृत्य मस्तकद्वारा सर्वत्र प्रसरति ॥८॥
इस भाष्य को एडिट करें