ऋग्वेद - मण्डल 3/ सूक्त 5/ मन्त्र 10
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म्। यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे॥
स्वर सहित पद पाठउत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् । यदि॑ । भृगु॑ऽभ्यः॑ । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥
स्वर रहित मन्त्र
उदस्तम्भीत्समिधा नाकमृष्वो३ग्निर्भवन्नुत्तमो रोचनानाम्। यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे॥
स्वर रहित पद पाठउत्। अस्तम्भीत्। सम्ऽइधा। नाकम्। ऋष्वः। अग्निः। भवन्। उत्ऽतमः। रोचनानाम्। यदि। भृगुऽभ्यः। परि। मातरिश्वा। गुहा। सन्तम्। हव्यऽवाहम्। सम्ऽईधे॥
ऋग्वेद - मण्डल » 3; सूक्त » 5; मन्त्र » 10
अष्टक » 2; अध्याय » 8; वर्ग » 25; मन्त्र » 5
अष्टक » 2; अध्याय » 8; वर्ग » 25; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - यदि रोचनानामुत्तमो भवन्नृष्वो मातरिश्वाऽग्निर्भृगुभ्यः समिधा नाकमुदस्तम्भीत्तर्हि तमहं गुहा सन्तं हव्यवाहं परिसमीधे ॥१०॥
पदार्थः -
(उत्) (अस्तम्भीत्) उत्तभ्नाति (समिधा) प्रदीपनेन (नाकम्) अविद्यमानदुःखम् (ऋष्वः) महान् (अग्निः) (भवन्) (उत्तमः) श्रेष्ठः (रोचनानाम्) प्रकाशमानानाम् (यदि)। अत्र संहितायामिति दीर्घः। (भृगुभ्यः) भर्जमानेभ्यः (परि) सर्वतः (मातरिश्वा) अन्तरिक्षशयानः (गुहा) गुहायाम् (सन्तम्) वर्त्तमानम् (हव्यवाहम्) यो हव्यं हविर्वहति तम् (समीधे) प्रदीपयेय ॥१०॥
भावार्थः - यथा वह्निर्विद्युत्सूर्य्यरूपेण सर्वं दधाति तथैव तमहं धरामि ॥१०॥
इस भाष्य को एडिट करें