ऋग्वेद - मण्डल 3/ सूक्त 5/ मन्त्र 9
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निः
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्म॑न्दि॒वो अधि॒ नाभा॑ पृथि॒व्याः। मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा ऽऽदू॒तो व॑क्षद्य॒जथा॑य दे॒वान्॥
स्वर सहित पद पाठउत् । ऊ॒आ॑म् इति॑ । स्तु॒तः । स॒म्ऽइधा॑ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म॑न् । दि॒वः । अधि॑ । नाभा॑ । पृ॒थि॒व्याः । मि॒त्रः । अ॒ग्निः । ईड्यः॑ । मा॒त॒रिश्वा॑ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा॑य । दे॒वान् ॥
स्वर रहित मन्त्र
उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः। मित्रो अग्निरीड्यो मातरिश्वा ऽऽदूतो वक्षद्यजथाय देवान्॥
स्वर रहित पद पाठउत्। ऊँ इति। स्तुतः। सम्ऽइधा। यह्वः। अद्यौत्। वर्ष्मन्। दिवः। अधि। नाभा। पृथिव्याः। मित्रः। अग्निः। ईड्यः। मातरिश्वा। आ। दूतः। वक्षत्। यजथाय। देवान्॥
ऋग्वेद - मण्डल » 3; सूक्त » 5; मन्त्र » 9
अष्टक » 2; अध्याय » 8; वर्ग » 25; मन्त्र » 4
अष्टक » 2; अध्याय » 8; वर्ग » 25; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - हे विद्वन् यथेड्योऽग्निः समिधा वर्ष्मन् दिवः पृथिव्या नाभा उदद्यौत् यो मातरिश्वा दूतस्सन् यजथाय देवानधि वक्षत्तथा उ स्तुतो यह्व ईड्यो मित्रो भवेत् ॥९॥
पदार्थः -
(उत्) (उ) (स्तुतः) प्रशंसितः (समिधा) (यह्वः) महान् (अद्यौत्) द्योतते (वर्ष्मन्) सेचने (दिवः) प्रकाशस्य (अधि) (नाभा) मध्ये (पृथिव्याः) भूमेः अन्वेषणीयः (मित्रः) सखा (अग्निः) वह्निः (ईड्यः) स्तोतव्यः (मातरिश्वा) यो मातरि श्वसिति (आ) (दूतः) दूत इव (वक्षत्) वहेत् (यजथाय) यजनाय सङ्गमनाय (देवान्) दिव्यगुणान् ॥९॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथाऽस्मिन्ब्रह्माण्डे सूर्य्यरूपेणाग्निः सर्वान् तापयति तथा महान्सखा सखीनानन्दयति दिव्यान् गुणाँश्च प्रापयति ॥९॥
इस भाष्य को एडिट करें