ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 2
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन्। ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः॥
स्वर सहित पद पाठमहि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् । ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥
स्वर रहित मन्त्र
महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन्। ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः॥
स्वर रहित पद पाठमहि। महे। दिवे। अर्च। पृथिव्यै। कामः। मे। इच्छन्। चरति। प्रऽजानन्। ययोः। ह। स्तोमे। विदथेषु। देवाः। सपर्यवः। मादयन्ते। सचा। आयोः॥
ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 2
अष्टक » 3; अध्याय » 3; वर्ग » 24; मन्त्र » 2
विषयः - पुनस्तमेव विषयमाह।
अन्वयः - यो युद्धविद्यां प्रजानन् विजयन् राज्यमिच्छन्महे दिवे पृथिव्यै चरति तं यो मे महि कामोऽस्ति तमलङ्कर्त्तुमिच्छन् विजयते तमर्च। ययोः स्तोमे विदथेषु सपर्यवो देवा हाऽऽयोः सचा मादयन्ते तौ युवां तानानन्दयेतम् ॥२॥
पदार्थः -
(महि) महान् (महे) महते (दिवे) प्रकाशमानाय (अर्च) सत्कुरु। अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (पृथिव्यै) भूमिराज्यप्राप्तये (कामः) अभिलाषा (मे) मम (इच्छन्) (चरति) गच्छति (प्रजानन्) विदन् सन् (ययोः) विद्याराज्ययोः (ह) (स्तोमे) प्रशंसिते विजये (विदथेषु) सङ्ग्रामेषु (देवाः) विद्वांसः (सपर्यवः) सेवकाः (मादयन्ते) हर्षयन्ति (सचा) सम्बन्धेन (आयोः) जीवस्य ॥२॥
भावार्थः - ये विद्याराज्यवृद्धिकामा दीर्घायुषो युद्धविद्याकुशला राजामात्याञ्छ्रीविजयाभ्यां सत्कुर्य्युस्तान् राजाऽमात्या अपि सदैव सुखयन्तु ॥२॥
इस भाष्य को एडिट करें