Loading...
ऋग्वेद मण्डल - 3 के सूक्त 54 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 54/ मन्त्र 22
    ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा देवता - विश्वेदेवा: छन्दः - विराट्त्रिष्टुप् स्वरः - धैवतः

    स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि। विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः॥

    स्वर सहित पद पाठ

    स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि । विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥


    स्वर रहित मन्त्र

    स्वदस्व हव्या समिषो दिदीह्यस्मद्र्य१क्सं मिमीहि श्रवांसि। विश्वाँ अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः॥

    स्वर रहित पद पाठ

    स्वदस्व। हव्या। सम्। इषः। दिदीहि। अस्मद्र्यक्। सम्। मिमीहि। श्रवांसि। विश्वान्। अग्ने। पृत्ऽसु। तान्। जेषि। शत्रून्। अहा। विश्वा। सुऽमनाः। दीदिहि। नः॥

    ऋग्वेद - मण्डल » 3; सूक्त » 54; मन्त्र » 22
    अष्टक » 3; अध्याय » 3; वर्ग » 27; मन्त्र » 7

    अन्वयः - हे अग्ने त्वमस्मद्र्यक् सन् हव्या श्रवांसि स्वदस्वेषः सं दिदीहि। श्रवांसि सं मिमीहि यतस्त्वं पृत्सु तान् विश्वाञ्छत्रूञ्जेषि तस्माद्विश्वाहा सुमनाः सन् दीदिहि। नोऽस्माँश्च दीदिहि ॥२२॥

    पदार्थः -
    (स्वदस्व) भुङ्क्ष्व (हव्या) अत्तुमर्हाणि (सम्) (इषः) विज्ञानानि (दिदीहि) प्रकाशय (अस्मद्र्यक्) योऽस्मानञ्चति सः (सम्) (मिमीहि) संमिमीष्व (श्रवांसि) अन्नानि श्रवणानि वा (विश्वान्) सर्वान् (अग्ने) पावक इव वर्त्तमान (पृत्सु) सङ्ग्रामेषु (तान्) (जेषि) जयसि (शत्रून्) (अहा) दिनानि (विश्वा) सर्वाणि (सुमनाः) प्रसन्नचित्तः (दीदिहि) प्रकाशस्व प्रकाशय वा। अत्र संहितायामिति दीर्घः। (नः) अस्मान् ॥२२॥

    भावार्थः - राजादिपुरुषैर्बुद्धिविनाशकान्नादित्यागमुक्त्वा विज्ञानं वर्द्धयित्वा लोकतो वार्त्ताः श्रुत्वा सेना उन्नीय शत्रूञ्जित्वा सर्वदा हर्षशोकरहितैर्भवितव्यं धर्म्येण प्रजाः संपाल्य विषयासक्तिं विहायाऽऽनन्दितव्यमिति ॥२२॥ अत्र राजविद्वत्प्रजाऽध्यापकशिष्येश्वरश्रोतृवक्तृशूरवीरकर्मगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह संगतिर्वेद्या ॥ इति चतुःपञ्चाशत्तमं सूक्तं सप्तविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top