Loading...
ऋग्वेद मण्डल - 3 के सूक्त 57 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 3/ सूक्त 57/ मन्त्र 5
    ऋषिः - विश्वामित्रः देवता - विश्वेदेवा: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची। तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि॥

    स्वर सहित पद पाठ

    या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची । तया॑ । इ॒ह । विश्वा॒न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यया॑ । च॒ । मधू॑नि ॥


    स्वर रहित मन्त्र

    या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची। तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि॥

    स्वर रहित पद पाठ

    या। ते। जिह्वा। मधुऽमती। सुऽमेधाः। अग्ने। देवेषु। उच्यते। उरूची। तया। इह। विश्वान्। अवसे। यजत्रान्। आ। सादय। पायया। च। मधूनि॥

    ऋग्वेद - मण्डल » 3; सूक्त » 57; मन्त्र » 5
    अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 5

    अन्वयः - हे अग्ने स्त्रि पुरुष वा ते तव या देवेषु मधुमती सुमेधा उरूची जिह्वोच्यते तयेह विश्वान्यजत्रानासादयैषामवसे च मधूनि पायय ॥५॥

    पदार्थः -
    (या) (ते) तव (जिह्वा) वाणी जिह्वेति वाङ्नाम। निघं० १। ११। (मधुमती) बहूनि मधूनि सत्यभाषणानि विद्यन्ते यस्यां सा (सुमेधाः) शोभना मेधा यस्यां सा (अग्ने) विद्वन् विदुषि वा (देवेषु) विद्वत्सु (उच्यते) कथ्यते (उरूची) या उर्वीर्बह्वीर्विद्या अञ्चति प्राप्नोति सा (तया) (इह) अस्मिन् गृहाश्रमे (विश्वान्) समग्रान् (अवसे) रक्षणाद्याय (यजत्रान्) संगतान् पूज्यान् तनयान् (आ) (सादय) प्रापय (पायय)। अत्र संहितायामिति दीर्घः। (च) अत्र निपातस्य चेति दीर्घः। (मधूनि) मधुयुक्तानि रसविशेषाणि पेयानि ॥५॥

    भावार्थः - यदि स्त्रीपुरुषौ प्रसन्नतया कृतविवाहौ विद्याप्रज्ञासुवाणीयुक्तौ भूत्वेह गृहाश्रमे स्थित्वा प्रेमजान्यपत्यान्युत्पाद्य पालयित्वा सुशिक्षायुक्तानि कृत्वा स्वयंवरं विवाहं कारयित्वा निवासयन्ति त एवाऽत्र गृहाश्रमे मोक्षमिव सुखमनुभवन्ति ॥५॥

    इस भाष्य को एडिट करें
    Top