ऋग्वेद - मण्डल 3/ सूक्त 57/ मन्त्र 6
ऋषिः - विश्वामित्रः
देवता - विश्वेदेवा:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
या ते॑ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा। ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज॑न्याम्॥
स्वर सहित पद पाठया । ते॒ । अ॒ग्ने॒ । पर्व॑तस्यऽइव । धारा॑ । अस॑श्चन्ती । पी॒पय॑त् । दे॒व॒ । चि॒त्रा । ताम् । अ॒स्मभ्य॑म् । प्रऽम॑तिम् । जा॒त॒ऽवे॒दः॒ । वसो॒ इति॑ । रास्व॑ । सु॒ऽम॒तिम् । वि॒श्वऽज॑न्याम् ॥
स्वर रहित मन्त्र
या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा। तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम्॥
स्वर रहित पद पाठया। ते। अग्ने। पर्वतस्यऽइव। धारा। असश्चन्ती। पीपयत्। देव। चित्रा। ताम्। अस्मभ्यम्। प्रऽमतिम्। जातऽवेदः। वसो इति। रास्व। सुऽमतिम्। विश्वऽजन्याम्॥
ऋग्वेद - मण्डल » 3; सूक्त » 57; मन्त्र » 6
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 6
अष्टक » 3; अध्याय » 4; वर्ग » 2; मन्त्र » 6
विषयः - पुनः स्त्रीपुरुषयोः कृत्यमाह।
अन्वयः - हे अग्ने ते यासश्चन्ती चित्रा पर्वतस्येव धारा पीपयत्तां प्रमतिं विश्वजन्यां सुमतिं त्वं रास्व। हे देव वसो जातवेदो भगवँस्त्वं दम्पतीभ्योऽस्मभ्यमेतां विद्यां प्रज्ञां वाचमीदृशीं स्त्रियमीदृशं पतिं च कृपया देहि यतो वयं सर्वदा सुखिनो भवेम ॥६॥
पदार्थः -
(या) (ते) तव (अग्ने) स्त्रि पुरुष वा (पर्वतस्येव) मेघस्येव (धारा) प्रवाहवद्वाणी। धारेति वाङ्नाम। निघं० १। ११। (असश्चन्ती) असमवयन्ती (पीपयत्) पिबति (देव) दिव्यगुणसम्पन्न (चित्रा) अद्भुता (ताम्) (अस्मभ्यम्) (प्रमतिम्) प्रकृष्टां प्रज्ञाम् (जातवेदः) जातेषु विद्यमानेश्वर (वसो) सर्वत्र वसन् (रास्व) देहि। अत्र व्यत्ययेनात्मनेपदम्। (सुमतिम्) शोभनप्रज्ञां स्त्रियमुत्तमप्रज्ञं पुरुषं वा (विश्वजन्याम्) विश्वं समग्रमपत्यं जायते यस्यास्ताम् ॥६॥
भावार्थः - स्त्रीपुरुषैर्ब्रह्मचर्य्येण विद्यासुशिक्षाः प्राप्य युवावस्थायां तुल्यगुणकर्मस्वभावान्त्सुपरीक्ष्य द्विगुणबलायुष्कं पतिं हृद्यां च प्राप्य गृहाश्रमे सुखेन निवसनीयमिति ॥६॥ । अत्र वाक्प्रज्ञागृहाश्रमस्त्रीपुरुषविवाहकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह संगतिर्वेद्या ॥ इति सप्तपञ्चाशत्तमं सूक्तं द्वितीयो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें