Loading...
ऋग्वेद मण्डल - 4 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 10/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - भुरिग्गायत्री स्वरः - षड्जः

    अधा॒ ह्य॑ग्ने॒ क्रतो॑र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः। र॒थीर्ऋ॒तस्य॑ बृह॒तो ब॒भूथ॑ ॥२॥

    स्वर सहित पद पाठ

    अध॑ । हि । अ॒ग्ने॒ । क्रतोः॑ । भ॒द्रस्य॑ । दक्ष॑स्य । सा॒धोः । र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । ब॒भूथ॑ ॥


    स्वर रहित मन्त्र

    अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः। रथीर्ऋतस्य बृहतो बभूथ ॥२॥

    स्वर रहित पद पाठ

    अध। हि। अग्ने। क्रतोः। भद्रस्य। दक्षस्य। साधोः। रथीः। ऋतस्य। बृहतः। बभूथ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 10; मन्त्र » 2
    अष्टक » 3; अध्याय » 5; वर्ग » 10; मन्त्र » 2

    अन्वयः - हे अग्ने ! हि त्वं रथीः सन् भद्रस्य दक्षस्य क्रतोः साधोर्ऋतस्य बृहतो रक्षको बभूथाऽधाऽस्माकं राजा भव ॥२॥

    पदार्थः -
    (अध) आनन्तर्ये। अत्र निपातस्य चेति दीर्घः। (हि) यतः (अग्ने) पावकवत्प्रकाशमान राजन् (क्रतोः) प्रज्ञायाः (भद्रस्य) कल्याणकरस्य (दक्षस्य) बलस्य (साधोः) सन्मार्गस्थस्य (रथीः) बहवो रथा विद्यन्ते यस्य सः (ऋतस्य) सत्यस्य न्यायस्य (बृहतः) महतः (बभूथ) भव ॥२॥

    भावार्थः - राज्ञा सर्वेण बलेन विज्ञानेन साधूनां रक्षणं दुष्टानां ताडनं कृत्वा सत्यस्य न्यायस्योन्नतिः सततं विधेया ॥२॥

    इस भाष्य को एडिट करें
    Top