Loading...
ऋग्वेद मण्डल - 4 के सूक्त 10 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 10/ मन्त्र 3
    ऋषिः - वामदेवो गौतमः देवता - अग्निः छन्दः - भुरिग्गायत्री स्वरः - षड्जः

    ए॒भिर्नो॑ अ॒र्कैर्भवा॑ नो अ॒र्वाङ् स्व१॒॑र्ण ज्योतिः॑। अग्ने॒ विश्वे॑भिः सु॒मना॒ अनी॑कैः ॥३॥

    स्वर सहित पद पाठ

    ए॒भिः । नः॒ । अ॒र्कैः । भव॑ । नः॒ । अ॒र्वाङ् । स्वः॑ । ण । ज्योतिः॑ । अग्ने॑ । विश्वे॑भिः । सु॒ऽमनाः॑ । अनी॑कैः ॥


    स्वर रहित मन्त्र

    एभिर्नो अर्कैर्भवा नो अर्वाङ् स्व१र्ण ज्योतिः। अग्ने विश्वेभिः सुमना अनीकैः ॥३॥

    स्वर रहित पद पाठ

    एभिः। नः। अर्कैः। भव। नः। अर्वाङ्। स्वः। न। ज्योतिः। अग्ने। विश्वेभिः। सुऽमनाः। अनीकैः॥३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 10; मन्त्र » 3
    अष्टक » 3; अध्याय » 5; वर्ग » 10; मन्त्र » 3

    अन्वयः - हे अग्ने ! त्वमर्कैरेभिर्नो रक्षको भवाऽर्वाङ् स्वर्ण नो ज्योतिर्भव सुमनाः सन् विश्वेभिरनीकैः पालको भव ॥३॥

    पदार्थः -
    (एभिः) प्रज्ञाबलसाधुभिस्सहितः (नः) अस्माकमुपरि (अर्कैः) सत्कर्त्तव्यैः (भव) अत्र द्व्यचोऽतस्तिङ इति दीर्घः। (नः) अस्मभ्यम् (अर्वाङ्) इतरस्मिन् व्यवहारे वर्त्तमानः (स्वः) सूर्य इव सुखकारी (न) इव (ज्योतिः) प्रकाशकः (अग्ने) (विश्वेभिः) समग्रैः (सुमनाः) कल्याणमनाः (अनीकैः) शत्रुभिर्दुष्टैर्दस्युभिर्नेतुमशक्यैः सैन्यैः ॥३॥

    भावार्थः - अत्रोपमालङ्कारः। ये राजानो बलबुद्धिसज्जनान् सङ्गत्य संरक्ष्य वर्द्धयित्वा प्रजापालनं विदधति ते सूर्य्य इव प्रकाशितयशसः सदानन्दिता भवन्ति ॥३॥

    इस भाष्य को एडिट करें
    Top