ऋग्वेद - मण्डल 4/ सूक्त 15/ मन्त्र 2
परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व। आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२॥
स्वर सहित पद पाठपरि॑ । त्रि॒ऽवि॒ष्टि । अ॒ध्व॒रम् । याति॑ । अ॒ग्निः । र॒थीःऽइ॑व । आ । दे॒वेषु । प्रयः॑ । दध॑त् ॥
स्वर रहित मन्त्र
परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव। आ देवेषु प्रयो दधत् ॥२॥
स्वर रहित पद पाठपरि। त्रिऽविष्टि। अध्वरम्। याति। अग्निः। रथीःऽइव। आ। देवेषु। प्रयः। दधत् ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 15; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 15; मन्त्र » 2
अष्टक » 3; अध्याय » 5; वर्ग » 15; मन्त्र » 2
विषयः - पुनरग्निविद्याविषयमाह ॥
अन्वयः - हे विद्वांसो ! योऽग्नी रथीरिव देवेषु प्रयो दधत् त्रिविष्ट्यध्वरं पर्यायाति स युष्माभिः कार्येषु योजनीयः ॥२॥
पदार्थः -
(परि) (त्रिविष्टि) विविधे सुखप्रवेशे (अध्वरम्) सत्कर्त्तव्यं व्यवहारम् (याति) (अग्निः) पावकः (रथीरिव) प्रशस्तरथादियुक्तः सेनेश इव (आ) (देवेषु) (प्रयः) कमनीयं धनम् (दधत्) धरन्त्सन् ॥२॥
भावार्थः - अत्रोपमालङ्कारः । हे मनुष्या ! यथोत्तमसेनः सेनाध्यक्षस्त्रिविधं सुखमाप्नोति तथैवाऽग्निविद्याविच्छरीरात्मेन्द्रियाऽऽनन्दं लभते ॥२॥
इस भाष्य को एडिट करें