Loading...
ऋग्वेद मण्डल - 4 के सूक्त 21 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 21/ मन्त्र 11
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्पङ्क्ति स्वरः - पञ्चमः

    नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥

    स्वर सहित पद पाठ

    नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः । अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । सदा॒ऽसाः ॥


    स्वर रहित मन्त्र

    नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो३ न पीपेः। अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥११॥

    स्वर रहित पद पाठ

    नु। स्तुतः। इन्द्र। नु। गृणानः। इषम्। जरित्रे। नद्यः। न। पीपेरिति पीपेः। अकारि। ते। हरिऽवः। ब्रह्म। नव्यम्। धिया। स्याम। रथ्यः। सदाऽसाः ॥११॥

    ऋग्वेद - मण्डल » 4; सूक्त » 21; मन्त्र » 11
    अष्टक » 3; अध्याय » 6; वर्ग » 6; मन्त्र » 6

    अन्वयः - हे हरिव इन्द्र ! येन धिया ते नव्यं ब्रह्माऽकारि यस्य रथ्यः सदासा वयं स्याम तदर्थमिषं नु गृणानो नु ष्टुतस्सन्नस्मै जरित्रे नद्यो न पीपेः ॥११॥

    पदार्थः -
    (नु) सद्यः (स्तुतः) प्रशंसितः (इन्द्र) विद्यैश्वर्य्ययुक्त (नु) अत्रोभयत्र ऋचि तुनुघेति दीर्घः। (गृणानः) विद्यां स्तुवन् (इषम्) (जरित्रे) सकलविद्याऽध्यापकाय (नद्यः) (न) इव (पीपेः) वर्धय (अकारि) (ते) तुभ्यम् (हरिवः) विद्वत्सङ्गप्रिय (ब्रह्म) विद्याधनम् (नव्यम्) नवीनम् (धिया) प्रज्ञया (स्याम) (रथ्यः) बहुरथाद्यैश्वर्य्ययुक्ताः (सदासाः) ससेवकाः ॥११॥

    भावार्थः - यो यस्मै विद्यां दद्यात् तस्य सेवा तेन यथावत् कर्त्तव्येति ॥११॥ अत्रेन्द्रराजप्रजागुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥११॥ इत्येकाधिकविंशत्तमं सूक्तं षष्ठो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top