ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 2
स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा॑धाः। स याम॒न्ना म॒घवा॒ मर्त्या॑य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ॥२॥
स्वर सहित पद पाठसः । वृ॒त्र॒ऽहत्ये॑ । हव्यः॑ । सः । ईड्यः॑ । सः । सुऽस्तु॑तः । इन्द्रः॑ । स॒त्यऽरा॑धाः । सः । याम॑न् । आ । म॒घऽवा॑ । मर्त्या॑य । ब्र॒ह्म॒ण्य॒ते । सुष्व॑ये । वरि॑वः । धा॒त् ॥
स्वर रहित मन्त्र
स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः। स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥२॥
स्वर रहित पद पाठसः। वृत्रऽहत्ये। हव्यः। सः। ईड्यः। सः। सुऽस्तुतः। इन्द्रः। सत्यऽराधाः। सः। यामन्। आ। मघऽवा। मर्त्याय। ब्रह्मण्यते। सुस्वये। वरिवः। धात् ॥२॥
ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 2
अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 2
विषयः - अथोक्तविषये धनुर्वेदाध्ययनफलमाह ॥
अन्वयः - हे मनुष्या ! यो मघवा सुष्वये ब्रह्मण्यते मर्त्याय वरिव आ धात् स इन्द्रो यामन् स सत्यराधाः स वृत्रहत्ये सुष्टुतः स ईड्यः स हव्यश्च भवेत् ॥२॥
पदार्थः -
(सः) (वृत्रहत्ये) महासङ्ग्रामे (हव्यः) आह्वातुं योग्यः (सः) (ईड्यः) प्रशंसितुमर्हः (सः) (सुष्टुतः) सर्वत्र प्राप्तसुकीर्त्तिः (इन्द्रः) परमैश्वर्य्यवान् (सत्यराधाः) न्यायोपार्जितसत्यधनः (सः) (यामन्) यामनि मार्गे (आ) (मघवा) पूजितराज्यः (मर्त्याय) मनुष्याय (ब्रह्मण्यते) आत्मनो धर्मेण धनमिच्छते (सुष्वये) ऐश्वर्य्यप्राप्त्यनुष्ठात्रे (वरिवः) सेवनम् (धात्) दध्यात् ॥२॥
भावार्थः - यो मनुष्यो बाल्याऽवस्थामारभ्य सुचेष्टो विद्वत्सेवी सुशिक्षो न्यायमार्गाऽनुवर्ती धनुर्वेदविदज्ञो युद्धे निर्भयः स्यात्तमेव राजानङ्कुरुत ॥२॥
इस भाष्य को एडिट करें