Loading...
ऋग्वेद मण्डल - 4 के सूक्त 24 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 24/ मन्त्र 3
    ऋषिः - वामदेवो गौतमः देवता - इन्द्र: छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम्। मि॒थो यत्त्या॒गमु॒भया॑सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ॥३॥

    स्वर सहित पद पाठ

    तम् । इत् । नरः॑ । वि । ह्व॒य॒न्ते॒ । स॒म्ऽई॒के । रि॒रि॒क्वांसः॑ । त॒न्वः॑ । कृ॒ण्व॒त॒ । त्राम् । मि॒थः । यत् । त्या॒गम् । उ॒भ्या॑सः । अग्म॑न् । नरः॑ । तो॒कस्य॑ । तन॑यस्य । सा॒तौ ॥


    स्वर रहित मन्त्र

    तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम्। मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥३॥

    स्वर रहित पद पाठ

    तम्। इत्। नरः। वि। ह्वयन्ते। सम्ऽईके। रिरिक्वांसः। तन्वः। कृण्वत। त्राम्। मिथः। यत्। त्यागम्। उभयासः। अग्मन्। नरः। तोकस्य। तनयस्य। सातौ ॥३॥

    ऋग्वेद - मण्डल » 4; सूक्त » 24; मन्त्र » 3
    अष्टक » 3; अध्याय » 6; वर्ग » 11; मन्त्र » 3

    अन्वयः - हे रिरिक्वांसो नरः ! समीके यद्यं विद्वांसो वि ह्वयन्ते तमिदेव तन्वस्त्रां कृण्वत। हे नरस्तोकस्य तनयस्य साता उभयासो दुःखस्य त्यागङ्कुर्वन्तो मिथः शत्रून् घ्नन्तोऽग्मँस्तान् सेवध्वम् ॥३॥

    पदार्थः -
    (तम्) (इत्) एव (नरः) नायकाः (वि) विशेषेण (ह्वयन्ते) स्पर्द्धन्ते (समीके) सम्यक् प्राप्ते सङ्ग्रामे। समीक इति सङ्ग्रामनामसु पठितम्। (निघं०२.१७) (रिरिक्वांसः) रेचनङ्कारयन्तः (तन्वः) शरीरस्य (कृण्वत) कुरुत (त्राम्) रक्षकम् (मिथः) अन्योऽन्यम् (यत्) यम् (त्यागम्) (उभयासः) उभयत्र वर्त्तमानाः (अग्मन्) प्राप्नुत (नरः) राज्यस्य नेतारः (तोकस्य) सद्यो जातस्याऽपत्यस्य (तनयस्य) कुमाराऽवस्थां प्राप्तस्य (सातौ) संविभक्ते ॥३॥

    भावार्थः - हे सेनाजना ! यो भृत्यानां रक्षक उत्साहक शूरवीरो भवेत्तं सत्कृत्य ये सङ्ग्रामङ्कृत्वा पलायन्ते तानसत्कृत्य भृशं दण्डयित्वा विजयं प्राप्नुत ॥३॥

    इस भाष्य को एडिट करें
    Top