ऋग्वेद - मण्डल 4/ सूक्त 38/ मन्त्र 8
ऋषिः - वामदेवो गौतमः
देवता - दध्रिकाः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒त स्मा॑स्य तन्य॒तोरि॑व॒ द्योर्ऋ॑घाय॒तो अ॑भि॒युजो॑ भयन्ते। य॒दा स॒हस्र॑म॒भि षी॒मयो॑धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ॥८॥
स्वर सहित पद पाठउ॒त । स्म॒ । अ॒स्य॒ । त॒न्य॒तोःऽइ॑व । द्योः । ऋ॒घा॒य॒तः । अ॒भि॒ऽयुजः॑ । भ॒य॒न्ते॒ । य॒दा । स॒हस्र॑म् । अ॒भि । सी॒म् । अयो॑धीत् । दुः॒ऽवर्तुः॑ । स्म॒ । भ॒व॒ति॒ । भी॒मः । ऋ॒ञ्जन् ॥
स्वर रहित मन्त्र
उत स्मास्य तन्यतोरिव द्योर्ऋघायतो अभियुजो भयन्ते। यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥८॥
स्वर रहित पद पाठउत। स्म। अस्य। तन्यतोःऽइव। द्योः। ऋघायतः। अभिऽयुजः। भयन्ते। यदा। सहस्रम्। अभि। सीम्। अयोधीत्। दुःऽर्वर्तुः। स्म। भवति। भीमः। ऋञ्जन् ॥८॥
ऋग्वेद - मण्डल » 4; सूक्त » 38; मन्त्र » 8
अष्टक » 3; अध्याय » 7; वर्ग » 12; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 12; मन्त्र » 3
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यः स्म भीम ऋञ्जन् भवति यो यदा सहस्रं सीमभ्ययोधीदस्य स्य दुर्वर्त्तुर्ऋघायत उताभियुजो द्योस्तन्यतोरिव सर्वे भयन्ते तदैव राजप्रतापः प्रवर्त्तते ॥८॥
पदार्थः -
(उत) (स्म) (अस्य) (तन्यतोरिव) विद्युत इव (द्योः) प्रकाशमानायाः (ऋघायतः) हिंसतः (अभियुजः) योऽभियुङ्क्ते तस्य (भयन्ते) बिभ्यति (यदा) (सहस्रम्) असङ्ख्यम् (अभि) सर्वतः (सीम्) (अयोधीत्) योधयति (दुर्वर्त्तुः) यो दुःखेन वर्त्तते तस्य (स्म) अत्र निपातस्य चेति दीर्घः। (भवति) (भीमः) बिभेति यस्मात्सः (ऋञ्जन्) विजयं प्रसाध्नुवन् ॥८॥
भावार्थः - अत्रोपमालङ्कारः । यो राजा विद्युद्वद् दुष्टान् हत्वा धार्मिकान् सत्करोति स एकोऽप्यसङ्ख्यैः सह योद्धुमर्हति यदाऽयं राजा न्यायेन प्रकटदण्डः स्यात्तदा सर्वे दुष्टा भीत्वा निलीयन्ते ॥८॥
इस भाष्य को एडिट करें