ऋग्वेद - मण्डल 4/ सूक्त 38/ मन्त्र 9
ऋषिः - वामदेवो गौतमः
देवता - दध्रिकाः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः। उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥९॥
स्वर सहित पद पाठउ॒त । स्म॒ । अ॒स्य॒ । प॒न॒य॒न्ति॒ । जनाः॑ । जू॒तिम् । कृ॒ष्टि॒ऽप्रः । अ॒भिऽभू॑तिम् । आ॒शोः । उ॒त । ए॒न॒म् । आ॒हुः॒ । स॒म्ऽइ॒थे । वि॒ऽयन्तः॑ । परा॑ । द॒धि॒ऽक्राः । अ॒स॒र॒त् । स॒हस्रैः॑ ॥
स्वर रहित मन्त्र
उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः। उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥९॥
स्वर रहित पद पाठउत। स्म। अस्य। पनयन्ति। जनाः। जूतिम्। कृष्टिऽप्रः। अभिऽभूतिम्। आशोः। उत। एनम्। आहुः। सम्ऽइथे। विऽयन्तः। परा। दधिऽक्राः। असरत्। सहस्रैः ॥९॥
ऋग्वेद - मण्डल » 4; सूक्त » 38; मन्त्र » 9
अष्टक » 3; अध्याय » 7; वर्ग » 12; मन्त्र » 4
अष्टक » 3; अध्याय » 7; वर्ग » 12; मन्त्र » 4
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! जना अस्य कृष्टिप्र आशोः सङ्ग्रामेऽभिभूतिं जूतिमुत पनयन्त्युतैनं समिथे वियन्त आहुर्यो दधिक्राः सहस्रैः परासरत् स स्म विजेतुं शक्नुयात् ॥९॥
पदार्थः -
(उत) वितर्के (स्म) (अस्य) राज्ञः (पनयन्ति) व्यवहरन्ति स्तुवन्ति वा (जनाः) राजप्रजामनुष्याः (जूतिम्) न्यायवेगम् (कृष्टिप्रः) यः कृष्टीन् मनुष्यान् दूतचारैः प्राति तस्य (अभिभूतिम्) अभिभवं तिरस्कारम् (आशोः) सकलविद्याव्यापकस्य (उत) अपि (एनम्) (आहुः) कथयन्ति (समिथे) सङ्ग्रामे (वियन्तः) विशेषेण प्राप्नुवन्तः (परा) (दधिक्राः) यो धारकैः सह क्रामति (असरत्) सरति गच्छति (सहस्रैः) असङ्ख्यैः ॥९॥
भावार्थः - तमेव राजानं विद्वांसः प्रशंसन्ति यः प्रजापालनतत्परः सन् सर्वान् व्यावहारयति ॥९॥
इस भाष्य को एडिट करें