ऋग्वेद - मण्डल 4/ सूक्त 39/ मन्त्र 6
द॒धि॒क्राव्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑। सु॒र॒भि नो॒ मुखा॑ कर॒त्प्र ण॒ आयूं॑षि तारिषत् ॥६॥
स्वर सहित पद पाठद॒धि॒ऽक्राव्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ । सु॒र॒भि । नः॒ । मुखा॑ । क॒र॒त् । प्र । नः॒ । आयूं॑षि । ता॒रि॒ष॒त् ॥
स्वर रहित मन्त्र
दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥६॥
स्वर रहित पद पाठदधिऽक्राव्णः। अकारिषम्। जिष्णोः। अश्वस्य। वाजिनः। सुरभि। नः। मुखा। करत्। प्र। नः। आयूंषि। तारिषत् ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 39; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 13; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 13; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे मनुष्या ! यो नो मुखा सुरभि करन्न आयूंषि प्रतारिषत्तस्य दधिक्राव्णोऽश्वस्य वाजिनो जिष्णो राज्ञो यथाहमाज्ञामकारिषं तथैव यूयमपि कुरुत ॥६॥
पदार्थः -
(दधिक्राव्णः) धर्मधरस्य क्रमयितुर्वा (अकारिषम्) कुर्य्याम् (जिष्णोः) जयशीलस्य (अश्वस्य) सकलशुभगुणव्याप्तस्य (वाजिनः) विज्ञानवतः (सुरभि) सुगन्धादिगुणयुक्तं द्रव्यम् (नः) अस्माकम् (मुखा) मुखेन सहचरितानि श्रोत्रादीनीन्द्रियाणि प्रति (करत्) कुर्य्यात् (प्र) (नः) अस्माकम् (आयूंषि) (तारिषत्) वर्द्धयेत् ॥६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। हे मनुष्या ! यो राजा सुगन्धादियुक्तघृतादिहोमेन वायुवृष्टिजलादिं शोधयित्वा सर्वेषां रोगान्निवार्य्याऽऽयूंषि वर्धयति प्रयत्नेन सर्वाः प्रजाः पुत्रवत्पालयति च सोऽस्माभिः पितृवत्सत्कर्त्तव्योऽस्तीति ॥६॥ अत्र राजप्रजाकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिरस्तीति वेद्यम् ॥६॥ इत्येकोनचत्वारिंशत्तमं सूक्तं त्रयोदशो वर्गश्च समाप्तः ॥
इस भाष्य को एडिट करें