Loading...
ऋग्वेद मण्डल - 4 के सूक्त 41 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 41/ मन्त्र 11
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रावरुणौ छन्दः - त्रिष्टुप् स्वरः - धैवतः

    आ नो॑ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ। यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥११॥

    स्वर सहित पद पाठ

    आ । नः॒ । बृ॒ह॒न्ता॒ । बृ॒ह॒तीभिः॑ । ऊ॒ती । इन्द्र॑ । या॒तम् । व॒रु॒ण॒ । वाज॑ऽसातौ । यत् । दि॒द्यवः॑ । पृत॑नासु । प्र॒ऽक्रीळा॑न् । तस्य॑ । वाम् । स्या॒म॒ । स॒नि॒तारः॑ । ओ॒जः ॥


    स्वर रहित मन्त्र

    आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ। यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः ॥११॥

    स्वर रहित पद पाठ

    आ। नः। बृहन्ता। बृहतीभिः। ऊती। इन्द्र। यातम्। वरुण। वाजऽसातौ। यत्। दिद्यवः। पृतनासु। प्रऽकीळान्। तस्य। वाम्। स्याम। सनितारः। आजेः ॥११॥

    ऋग्वेद - मण्डल » 4; सूक्त » 41; मन्त्र » 11
    अष्टक » 3; अध्याय » 7; वर्ग » 16; मन्त्र » 6

    अन्वयः - हे इन्द्र वरुण ! बृहन्ता युवां बृहतीभिरूती वाजसातौ न आ यातम्। यद्ये दिद्यवस्तस्याजेः सनितारो वयं पृतनासु प्रक्रीळान् प्राप्य वां क्रीडां प्राप्ताः स्याम तानस्मान् युवां सत्कुर्य्यातम् ॥११॥

    पदार्थः -
    (आ) समन्तात् (नः) अस्मान् (बृहन्ता) सद्गुणैर्महान्तौ (बृहतीभिः) महतीभिः (ऊती) रक्षाभिः। अत्र सुपां सुलुगिति भिसो लुक्। (इन्द्र) दुष्टदलक राजन् (यातम्) प्राप्नुतम् (वरुण) सेनेश (वाजसातौ) सङ्ग्रामे (यत्) ये (दिद्यवः) विद्याविनयाभ्यां प्रकाशमानास्तेजस्विनः (पृतनासु) सेनासु (प्रक्रीळान्) प्रकृष्टान् विहारान् (तस्य) (वाम्) युवाभ्याम् (स्याम) (सनितारः) विभक्तारः (आजेः) सङ्ग्रामस्य ॥११॥

    भावार्थः - हे राजन् ! यथा वयं भवतः प्रति प्रीत्या वर्त्तेमहि तथैव भवताप्यस्मासु वर्त्तितव्यमिति ॥११॥ अत्राध्यापकोपदेशकराजप्रजामात्यकृत्यवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥११॥ इत्येकचत्वारिंशत्तमं सूक्तं षोडशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top