ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 5
ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम्। मध्वा॑ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं॑ वां॒ पृक्षो॑ भु॒रज॑न्त प॒क्वाः ॥५॥
स्वर सहित पद पाठउ॒रु । वा॒म् । रथः॑ । परि॑ । न॒क्ष॒ति॒ । द्याम् । आ । यत् । स॒मु॒द्रात् । अ॒भि । वर॑ते । वा॒म् । मध्वा॑ । मा॒ध्वी॒ इति॑ । मधु॑ । वा॒म् । प्र॒ुषा॒य॒न् । यत् । सी॒म् । वा॒म् । पृक्षः॑ । भु॒रज॑न्त । प॒क्वाः ॥
स्वर रहित मन्त्र
उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम्। मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥५॥
स्वर रहित पद पाठउरु। वाम्। रथः। परि। नक्षति। द्याम्। आ। यत्। समुद्रात्। अभि। वर्तते। वाम्। मध्वा। माध्वी इति। मधु। वाम्। प्रुषायन्। यत्। सीम्। वाम्। पृक्षः। भुरजन्त। पक्वाः ॥५॥
ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 5
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 5
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! यो वां रथो द्यामुरु परि नक्षति यद्यो वां समुद्रादभ्या वर्त्तते वां माध्वी मध्वा मधु सीम्भुरजन्त यद्ये पृक्षः पक्वा वां प्रुषायँस्तान् विदुषो युवां सम्पादयेतम् ॥५॥
पदार्थः -
(उरु) बहु (वाम्) युवयोः (रथः) (परि) सर्वतः (नक्षति) व्याप्नोति (द्याम्) (आ) (यत्) यः (समुद्रात्) अन्तरिक्षाज्जलाशयाद्वा (अभि) आभिमुख्ये (वर्त्तते) (वाम्) युवाम् (मध्वा) मधुना (माध्वी) मधुरा नीतिः (मधु) (वाम्) युवाम् (प्रुषायन्) प्राप्नुवन्ति (यत्) ये (सीम्) सर्वतः (वाम्) युवाम् (पृक्षः) सम्बन्धिनः (भुरजन्त) प्राप्नुवन्ति (पक्वाः) परिपक्वज्ञानाः परिपक्वस्वरूपा वा ॥५॥
भावार्थः - हे मनुष्या ! ये युष्मान् विदुषः कुर्य्युस्तान् सेवध्वम् ॥५॥
इस भाष्य को एडिट करें