ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 6
ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ
देवता - अश्विनौ
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
सिन्धु॑र्ह वां र॒सया॑ सिञ्च॒दश्वा॑न्घृ॒णा वयो॑ऽरु॒षासः॒ परि॑ ग्मन्। तदू॒ षु वा॑मजि॒रं चे॑ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः॑ ॥६॥
स्वर सहित पद पाठसिन्धुः॑ । ह॒ । वा॒म् । र॒सया॑ । सि॒ञ्च॒त् । अश्वा॑न् । घृ॒णा । वयः॑ । अ॒रु॒षासः॑ । परि॑ । ग्म॒न् । तत् । ऊँ॒ इति॑ । सु । वा॒म् । अ॒जि॒रम् । चे॒ति॒ । यान॑म् । येन॑ । पती॒ इति॑ । भव॑थः । सू॒र्यायाः॑ ॥
स्वर रहित मन्त्र
सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन्। तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥६॥
स्वर रहित पद पाठसिन्धुः। ह। वाम्। रसया। सिञ्चत्। अश्वान्। घृणा। वयः। अरुषासः। परि। ग्मन्। तत्। ऊम् इति। सु। वाम्। अजिरम्। चेति। यानम्। येन। पती इति। भवथः। सूर्यायाः ॥६॥
ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 6
अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 6
विषयः - पुनस्तमेव विषयमाह ॥
अन्वयः - हे अध्यापकोपदेशकौ ! यः सिन्धू रसयो वां सिञ्चद्वयो घृणाऽरुषासोऽश्वान् परि ग्मँस्तदु वामजिरं सु चेति येन यानं प्राप्य सूर्य्यायाः पती भवथस्तौ ह विजानीयाताम् ॥६॥
पदार्थः -
(सिन्धुः) नदी समुद्रो वा (ह) किल (वाम्) (रसया) रसादिना (सिञ्चत्) सिञ्चति (अश्वान्) सद्यो गामिनोऽग्न्यादीन् (घृणा) प्रदीप्ताः (वयः) व्यापिनः (अरुषासः) रक्तगुणविशिष्टाः (परि) (ग्मन्) गच्छन्ति (तत्) (उ) (सु) (वाम्) युवाम् (अजिरम्) प्राप्तव्यं प्रक्षेपकं वा (चेति) जानाति। अत्र विकरणस्य लुक् (यानम्) (येन) (पती) पालकौ (भवथः) (सूर्य्यायाः) सूर्य्यस्येयं कान्तिरुषास्तस्याः ॥६॥
भावार्थः - हे अध्यापकोपदेशकौ ! भवन्तौ यथा सुरसेन जलेन वृक्षान् क्षेत्रादिकं च संसिच्य वर्द्धयित्वैतेभ्यः फलानि प्राप्नुवन्ति तथैवं सर्वान् मनुष्यानध्याप्योपदिश्य प्रज्ञया वर्धयित्वा सुखफलौ भवेताम् ॥६॥
इस भाष्य को एडिट करें