Loading...
ऋग्वेद मण्डल - 4 के सूक्त 43 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 43/ मन्त्र 7
    ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ देवता - अश्विनौ छन्दः - निचृत्त्रिष्टुप् स्वरः - धैवतः

    इ॒हेह॒ यद्वां॑ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा॑जरत्ना। उ॒रु॒ष्यतं॑ जरि॒तारं॑ यु॒वं ह॑ श्रि॒तः कामो॑ नासत्या युव॒द्रिक् ॥७॥

    स्वर सहित पद पाठ

    इ॒हऽइ॑ह । यत् । वा॒म् । स॒म॒ना । प॒पृ॒क्षे । सा । इ॒यम् । अ॒स्मे इति॑ । सु॒ऽम॒तिः । वा॒ज॒ऽर॒त्ना॒ । उ॒रु॒ष्यत॑म् । ज॒रि॒तार॑म् । यु॒वम् । ह॒ । श्रि॒तः । कामः॑ । ना॒स॒त्या॒ । यु॒व॒द्रिक् ॥


    स्वर रहित मन्त्र

    इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना। उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥७॥

    स्वर रहित पद पाठ

    इहऽइह। यत्। वाम्। समना। पपृक्षे। सा। इयम्। अस्मे इति। सुऽमतिः। वाजऽरत्ना। उरुष्यतम्। जरितारम्। युवम्। ह। श्रितः। कामः। नासत्या। युवद्रिक् ॥७॥

    ऋग्वेद - मण्डल » 4; सूक्त » 43; मन्त्र » 7
    अष्टक » 3; अध्याय » 7; वर्ग » 19; मन्त्र » 7

    अन्वयः - हे वाजरत्ना नासत्या समना यद्या सुमतिवो पपृक्षे सेयमिहेहास्मे सुसेवतां युवं ह जरितारमुरुष्यतं तौ वां युवद्रिच्छ्रितः कामः सेवताम् ॥७॥

    पदार्थः -
    (इहेह) अस्मिन् संसारे (यत्) या (वाम्) युवाम् (समना) समनस्कौ (पपृक्षे) सम्बध्नाति (सा) (इयम्) (अस्मे) अस्मान् (सुमतिः) शोभना प्रज्ञा (वाजरत्ना) वाजो बोधो रत्नं धनं ययोस्तौ (उरुष्यतम्) सेवेथाम् (जरितारम्) स्तावकम् (युवम्) युवाम् (ह) (श्रितः) आश्रितः (कामः) इच्छा (नासत्या) अविद्यमानासत्याचरणौ (युवद्रिक्) युवां प्राप्नुवन् ॥७॥

    भावार्थः - हे अध्यापकोपदेशका ! भवन्त इह या प्रज्ञा युष्मान् प्राप्नुयात् तां सर्वेभ्यः प्रयच्छत यादृशी स्वहितायेच्छा क्रियते तादृशी सर्वार्था कार्य्या ॥७॥ अत्राऽध्यापकोपदेशकाऽध्याप्योपदेश्यगुणवर्णनादेतदर्थस्य पूर्वसूक्तार्थेन सह सङ्गतिर्वेद्या ॥७॥ इति त्रिचत्वारिंशत्तमं सूक्तमेकोनविंशो वर्गश्च समाप्तः ॥

    इस भाष्य को एडिट करें
    Top