साइडबार
ऋग्वेद - मण्डल 4/ सूक्त 47/ मन्त्र 3
वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती। नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥३॥
स्वर सहित पद पाठवायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ । नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् सोम॑ऽपीतये ॥
स्वर रहित मन्त्र
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती। नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
स्वर रहित पद पाठवायो इति। इन्द्रः। च। शुष्मिणा। सऽरथम्। शवसः। पती इति। नियुत्वन्ता। नः। ऊतये। आ। यातम्। सोमऽपीतये ॥३॥
ऋग्वेद - मण्डल » 4; सूक्त » 47; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 3
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 3
विषयः - अथ राजामात्यगुणानाह ॥
अन्वयः - हे शुष्मिणा शवसस्पती नियुत्वन्ता वायविन्द्रश्च न ऊतये सोमपीतये सरथमायातम् ॥३॥
पदार्थः -
(वायो) महाबल (इन्द्रः) राजा (च) (शुष्मिणा) बलिष्ठौ (सरथम्) समानं यानम् (शवसः) बलस्य (पती) पालकौ (नियुत्वन्ता) प्रभुसमर्थौ (नः) अस्माकम् (ऊतये) रक्षणाय (आ) (यातम्) (सोमपीतये) ऐश्वर्य्यपालनाय ॥३॥
भावार्थः - हे मनुष्या ! ये राज्ञोऽमात्याश्च बलवर्द्धिनः समर्था न्यायकारिणः स्युस्ते युष्माकं पालकाः सन्तु ॥३॥
इस भाष्य को एडिट करें