Loading...
ऋग्वेद मण्डल - 4 के सूक्त 47 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 4/ सूक्त 47/ मन्त्र 2
    ऋषिः - वामदेवो गौतमः देवता - इन्द्रवायू छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः

    इन्द्र॑श्च वायवेषां॒ सोमा॑नां पी॒तिम॑र्हथः। यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२॥

    स्वर सहित पद पाठ

    इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सोमा॑नाम् । पी॒तिम् । अ॒र्ह॒थः॒ । यु॒वाम् । हि । यन्ति॑ । इन्द॑वः । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥


    स्वर रहित मन्त्र

    इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः। युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥२॥

    स्वर रहित पद पाठ

    इन्द्रः। च। वायो इति। एषाम्। सोमानाम्। पीतिम्। अर्हथः। युवाम्। हि। यन्ति। इन्दवः। निम्नम्। आपः। न। सध्र्यक् ॥२॥

    ऋग्वेद - मण्डल » 4; सूक्त » 47; मन्त्र » 2
    अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 2

    अन्वयः - हे वायो ! त्वमिन्द्रश्च युवामापो निम्नं न यथेन्दवः सध्र्यक् यन्ति तथा हि युवामेषां सोमानां पीतिमर्हथः ॥२॥

    पदार्थः -
    (इन्द्रः) परमैश्वर्य्यवान् (च) (वायो) बलयुक्त (एषाम्) (सोमानाम्) ओषध्युत्पन्नानां रसानाम् (पीतिम्) पानम् (अर्हथः) (युवाम्) (हि) (यन्ति) (इन्दवः) सङ्गन्तारः पूजनीयाः। इन्दुरिति यज्ञनामसु पठितम्। (निघं०३.१७) (निम्नम्) (आपः) (न) इव (सध्र्यक्) यः सहाञ्चति ॥२॥

    भावार्थः - अत्रोपमावाचकलुप्तोपमालङ्कारौ। यथा यज्ञा अपो गच्छन्ति तथैव विद्वांसो विद्याव्यवहारमर्हन्ति ॥२॥

    इस भाष्य को एडिट करें
    Top