साइडबार
ऋग्वेद - मण्डल 4/ सूक्त 47/ मन्त्र 1
वायो॑ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु। आ या॑हि॒ सोम॑पीतये स्पा॒र्हो दे॑व नि॒युत्व॑ता ॥१॥
स्वर सहित पद पाठवायो॒ इति॑ । शु॒क्रः । अ॒या॒मि॒ । ते॒ । मध्वः॑ । अग्र॑म् । दिवि॑ष्टिषु । आ । या॒हि॒ । सोम॑ऽपीतये । स्पा॒र्हः । दे॒व॒ । नि॒युत्व॑ता ॥
स्वर रहित मन्त्र
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु। आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥१॥
स्वर रहित पद पाठवायो इति। शुक्रः। अयामि। ते। मध्वः। अग्रम्। दिविष्टिषु। आ। याहि। सोमऽपीतये। स्पार्हः। देव। नियुत्वता ॥१॥
ऋग्वेद - मण्डल » 4; सूक्त » 47; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 1
अष्टक » 3; अध्याय » 7; वर्ग » 23; मन्त्र » 1
विषयः - अथ वायुसादृश्येन विद्वद्गुणानाह ॥
अन्वयः - हे देव वायो ! स्पार्हः शुक्रोऽहं दिविष्टिषु नियुत्वता सह सोमपीतये ते मध्वोऽग्रं यथायामि तथा त्वमायाहि ॥१॥
पदार्थः -
(वायो) (शुक्रः) शुद्धस्वभावः (अयामि) प्राप्नोमि (ते) तव (मध्वः) मधुरस्य (अग्रम्) (दिविष्टिषु) प्रकाशे स्थितासु क्रियासु (आ) (याहि) (सोमपीतये) उत्तमरसपानाय (स्पार्हः) स्पर्हणीयः (देव) (नियुत्वता) प्रभुणा राज्ञा सह ॥१॥
भावार्थः - ये वायुवत्सर्वत्र विहृत्य विद्याग्रहणं कुर्वन्ति ते सर्वत्र स्पर्हणीया जायन्ते ॥१॥
इस भाष्य को एडिट करें